SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ धारणया उवभोगो परिहरणा होइ परिभोगो ॥१९०॥ (बृहत्कल्पभाष्ये २३६७,२३७२]॥५०॥ तथा मूर्होत्यागः ॥५१॥३२०।। इति । मूर्छाया अभिष्वङ्गस्य सर्वत्र बाह्येऽर्थेऽभ्यन्तरे च शरीरबलादौ वर्जनम् ॥५१॥ तथा अप्रतिबद्धविहरणम् ॥५२॥३२१॥ इति । अप्रतिबद्धेन देश-ग्राम-कुलादावमूर्च्छितेन विहरणं विहार: कार्यः ॥५२।। तथा पञ्चमोऽध्यायः परकृतबिलवासः ॥५३॥३२२।। इति । परैः आत्मव्यतिरिक्तैः कृते स्वार्थमेव निष्पादिते बिल इव बिले असंस्करणीयतया उपाश्रये वासः ॥५३॥ तथा अवग्रहशुद्धिः ॥५४॥३२३॥ इति । अवग्रहाणां देवेन्द्र-राज-गृहपति-शय्यातर-साधर्मिकाभाव्यभूभागलक्षणानां शुद्धिः तदनुज्ञया परिभोगलक्षणा कार्या ॥५४॥ मासादिकल्पः ॥५५||३२४॥ इति। मासः प्रतीतरूप एव, आदिशब्दाच्चतुर्मासी गृह्यते, ततो मासकल्पश्चतुर्मासीकल्पश्च कार्यः ॥५५॥ यदा तु दुर्भिक्ष-क्षितिपतिविग्रह-जवाबलक्षयादिभिर्निमित्तैः क्षेत्रविभागेन मासादिकल्प: कर्तुं न पार्यते तदा किं कर्त्तव्यमित्याह एकत्रैव तक्रिया ॥५६||३२५।। इति । एकस्मिन्नेव मासकल्पादियोग्ये क्षेत्रे वसत्यन्तरविभागेन वीथ्यन्तरविभागेन च सर्वथा निरवकाशतायां संस्तारकभूमिपरिवर्तेन तक्रिया मासादिकल्पक्रियेति, अत एव पठ्यतेसंथारपरावत्तं अभिग्गहं चेव चित्तरूवं तु । एत्तो चरित्तिणो इह विहार-पडिमाइसु करंति ॥१९१॥ [ ] ॥५६॥ तत्र च सर्वत्राममत्वम् ॥५७॥३२६।। इति । १.धारणता उपभोग: परिहरणा भवति परिभोगः ।। २.परिहरिणा मु० विना सर्वेषु हस्तलिखितादर्शेषु ।। ३.संस्तारकपरावर्तम् अभिग्रहं चैव चित्ररूपं तु । इत: चारित्रिण इह विहानतिमादिषु । १११ कुर्वन्ति ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy