________________
सवृत्तिके धर्मबिन्दौ
११०
वसतौ स्वाध्यायस्थानादौ च न तत्र स्थातव्यं यत्र कुड्यान्तरं दाम्पत्यं भवतीति ॥४४॥
पूर्वक्रीडितास्मृतिः ।।४५।।३१४।। इति ।
पूर्वं प्रव्रज्याप्रतिपत्तिकालात् प्राक् क्रीडितानां प्रौढप्रमोदप्रदप्रमदाप्रसङ्गप्रभृतिविलसितानामस्मृति: अस्मरणम्, अयं च भुक्तभोगान् प्रत्युपदेश
इति ॥४५॥
प्रणीताभोजनम् ||४६ || ३१५ ।। इति ।
प्रणीतस्य अतिस्निग्धस्य गलत्स्नेहबिन्दुलक्षणस्याहारस्याभोजनम् अनुपजीवनमिति ॥ ४६॥ अतिमात्राभोगः ||४७ || ३१६ ।। इति ।
अप्रणीतस्याप्याहारस्यातिमात्रस्य द्वात्रिंशत्कवलादिशास्त्रसिद्धप्रमाणातिक्रान्तस्याभोगः अभोजनम् ||४७|| विभूषापरिवर्जनम् ||४८ ।। ३१७।। इति ।
विभूषायाः शरीरोपकरणयोः शृङ्गारलक्षणायाः परिवर्जनमिति । एतेषां च स्त्रीकथादीनां नवानामपि भावानां मोहोद्रेकहेतुत्वात् निषेधः कृत इति ॥ ४८ ॥ तथा
तत्त्वाभिनिवेशः ॥ ४९ ॥ ३१८ ।। इति ।
तत्त्वे सम्यग्दर्शन - ज्ञान चारित्रानुसारिणि क्रियाकलापे अभिनिवेश: शक्यकोटिमागते कर्तुमत्यन्तादरपरता, अन्यथा तु मनः प्रतिबन्ध एव कार्यः
॥४९॥ तथा
Jain Education International
युक्तोपधिधारणा ||५०॥३१९॥ इति ।
युक्तस्य शास्त्रप्रसिद्धप्रमाणसमन्वितस्य लोकपरिवादाविषयस्य स्वपरयो रागानुत्पादकस्य उपधेः वस्त्रपात्रादिलक्षणस्य धारणा उपभोग:, उपलक्षणत्वात् परिभोगश्च गृह्यते, यथोक्तम्
For Private & Personal Use Only
पञ्चमोऽध्यायः
११०
www.jainelibrary.org