________________
सवृत्तिके
धर्मबिन्दौ १०९
पञ्चमोऽध्यायः
स्त्रीणां कथा स्त्रीकथा, सा च चतुर्विधा- जाति१ कुलर रूप३ नेपथ्य४ भेदात्, तत्र जाति: ब्राह्मणादिका, तत्कथा यथा
धिक् ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्याः शूद्रीजने मन्ये पतिलक्षेऽप्यनिन्दिताः ॥१८६॥ [ ] कुलं चौलुक्य-चाहुमानादि, तत्कथा
अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । विशन्त्यप्नौ मृते पत्यौ याः प्रेमरहिता अपि ॥१८७॥ [ ] रूपं शरीराकारः, तत्कथा
अहो अन्ध्रपुरन्ध्रीणां रूपं जगति वर्ण्यते । यत्र यूनां दृशो लग्ना न मन्यन्ते परिश्रमम् ॥१८८॥ [ ] नेपथ्यं वस्त्रादिवेषग्रहः, तत्कथा
धिग् नारीरौदीच्या बहुवस्त्राच्छादितालतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥१८९॥ [ ] तस्याः परिहार इति ॥४१॥
निषद्यानुपवेशनम् ॥४२॥३११।। इति । निषद्यायां स्त्रीनिवेशस्थाने पट्ट-पीठादौ मुहूर्त यावत् स्त्रीषुत्थितास्वपि अनुपवेशनं कार्यम्, सद्य एव स्त्रीनिषद्योपवेशने साधोस्तच्छरीरसंयोगसंक्रान्तोष्मस्पर्शवशेन मनोविश्रोतसिकादोषसंभवात् ॥४२।।
इन्द्रियाप्रयोगः ॥४३॥३१२।। इति । __इन्द्रियाणां चक्षुरादीनां कथञ्चिद् विषयभावापन्नेष्वपि गुह्योरु-वदन-कक्षा-स्तनादिषु स्त्रीशरीरावयवेषु अप्रयोग: अव्यापारणं कार्यम्, पुनस्तन्निरीक्षणाद्यर्थं न यत्नः कार्यः ॥४३॥
कुड्यान्तरदाम्पत्यवर्जनम् ॥४४॥३१३।। इति । कुड्यं भित्तिस्तदन्तरं व्यवधानं यस्य तत् तथा, दाम्पत्यं दयिता-पतिलक्षणं युगलम्, कुड्यान्तरं च तद् दाम्पत्यं चेति समासः, तस्य वर्जनम्, १.न पुनस्तन्निरीक्षणाय प्रयत्न: कार्य: K. ॥ २ क्षणार्थ न L ||
१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org