SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबन्दी १०८ हस्तशताद् बहिर्गृहीतस्येर्याप्रतिक्रमण-गमना ऽऽगमनालोचनापूर्वकं हस्तशतमध्ये तु एवमेव गुरोः निवेदनं दायकहस्तमात्रव्यापारप्रकाशन ज्ञापन समर्पणं च कार्यमिति ॥ ३५ ॥ अत एव - स्वयमदानम् || ३६ || ३०५ || इति । स्वयम् आत्मनाऽदानं लब्धस्यान्यस्मै अवितरणम्, गुर्वायत्तीकृतत्वात् तस्य ||३६|| ततो यदि गुरुः स्वयमेव कस्मैचित् बालादिकाय किञ्चिद् दद्यात् तत् सुन्दरमेव, अथ कुतोऽपि व्यग्रतया न स्वयं ददाति किन्तु तेनैव दापयति तदातदाज्ञया प्रवृत्तिः ||३७||३०६ ।। इति । तस्य गुरोराज्ञया निरोपेण प्रवृत्तिर्दाने कार्या ॥ ३७॥ तत्र चउचितच्छन्दनम् ||३८||३०७ || इति । उचितस्य समानसंभोगस्य बालादेः साधोः, न पुनरन्यस्य तं प्रति दानानधिकारितत्वात् तस्य छन्दनं छन्दस्य अभिलाषस्य अन्नादिग्रहणं प्रत्युत्पादनं कार्यम् ॥३८॥ ततो दत्तावशिष्टस्यान्नादेः धर्मायोपभोगः ||३९|| ३०८ || इति । धर्माय धर्माधारशरीरसंधारणद्वारेण धर्मार्थमेव च, न पुनः शरीरवर्ण-बलाद्यर्थमपि, उपभोगः उपजीवनम् तथा चार्षम् वेयण १ वेयावच्चे २ इरियट्ठाए ३ य संयमट्ठाए ४ । तह पाणवत्तियाए ५ छटुं पुण धम्मचिंताए ६ || १८५ // [ उत्तरा० २६ / ३३] ||३९|| तथाविविक्तवसतिसेवा ||४०|| ३०९ || इति । विविक्ताया: स्त्री- पशु - पण्डकविवर्जितायाः वसते: आश्रयस्य सेवा परिभोगो विधेयः, अविविक्तायां हि वसतौ व्रतिनां ब्रह्मचर्यव्रतविलोपप्रसङ्ग इति ॥४०॥ अत एव ब्रह्मचर्यव्रतपरिपालनाय एतच्छेषगुप्तीरभिधातुं 'स्त्रीकथापरिहार:' इत्यादि विभूषापरिवर्जनम्' इतिपर्यन्तं सूत्राष्टकमाह । तत्रस्त्रीकथापरिहारः || ४१ ||३१०|| इति । १. सम्भोग्यबालादेः L ॥ २. कारितत्वात् इति पाठो यद्यपि हस्तलिखितादर्शेषूपलभ्यते तथापि कारित्वात् इत्यपि पाठोऽत्र कदाचित् संभाव्येत ॥। ३. इतः पुनः K. प्रतेरारम्भः ॥। ४. गाथेयम् ओघनिर्युक्तौ ५८०, पिण्डनिर्युक्तौ ६२, पञ्चवस्तुके ३६५ चाप्युपलभ्यते ॥ For Private & Personal Use Only Jain Education International पञ्चमोऽध्यायः १०८ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy