________________
सवृत्तिके अपारुष्यरूपर्विश्वासमूलत्वात् सर्वसिद्धीनाम्, यदुच्यते
धर्मबन्दी
१०५
Jain Education International
सिद्धेर्विश्वासिता मूलं यद्यथपतयो गजाः । सिंहो मृगाधिपत्येऽपि न मृगैरनुगम्यते ||१७५ || [ ]॥२२॥इति । सर्वत्रापिशुनता ।। २३ ।। २९२ ।। इति । सर्वत्र स्वपक्षे परपक्षे च परोक्षं दोषाणामनाविष्करणम्, परदोषग्राहितायां हि आत्मैव दोषवान् कृतः स्यात्, पठ्यते च— लोओ परस्स दोसे हत्थाहत्थिं गुणे य गिण्हंतो । अप्पाणमप्पणो च्चिय कुणइ सदोमं च सगुणं च ॥ १७६॥ [ विकथावर्जनम् ||२४|| २९३ ।। इति । विकथानां स्त्री-भक्त-देश-राजगोचराणां स्वभावत एवाकुशलाशयसमुन्मीलननिबन्धनानां वर्जनम्, एतत्कथाकरणे हि कृष्ण - नीलाद्युपाधिरिव स्फटिकमणिरात्मा कथ्यमानस्त्र्यादिचेष्टानामनुरूपतां प्रतिपद्यते ||२४|| तथा
] ||२३|| तथा
उपयोग प्रधानता ।। २५ ।। २९४ ।। इति ।
उपयोगः प्रधानं पुरस्सरः सर्वकार्येषु यस्य स तथा तस्य भावस्तत्ता विधेया, निरुपयोगानुष्ठानस्य द्रव्यानुष्ठानत्वात्, अनुपयोगो द्रव्यम् ] इति वचनात् ॥२५॥ तथा
निश्चितहितोक्तिः ॥ २६ ।। २९५ ।। इति ।
निश्चितस्य संशय-विपर्यया ऽनध्यवसायबोधदोषपरिहारेण निर्णीतस्य हितस्य च परिणामसुन्दरस्योक्तिः भाषणम्, अत एव पठ्यतेकुदृष्टं कुश्रुतं चैव कुज्ञातं कुपरीक्षितम् । कुभावजनकं सन्तो भाषन्ते न कदाचन ॥ १७७॥ [ प्रतिपन्नानुपेक्षा ||२७||२९६ ।। इति ।
] ॥२६॥
प्रतिपन्नस्य अभ्युपगतस्य गुरुविनय- स्वाध्यायादेः साधुसमाचारविशेषस्यानुपेक्षा अनवधीरणा, अवधीरितो हि समाचारो जन्मान्तरेऽपि दुर्लभः स्यात् ॥ २७॥ तथा
१. विश्वासहेतुत्वात् J.।। २. अप्पाण अप्पणा च्चिय J || "स्वयमोऽर्थे अप्पणो न वा ||२| २०९ ॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम्" इति हैमे स्वोपज्ञवृत्तिसहिते प्राकृतव्याकर ।।३. लोकः परस्य दोषान् हस्ताहस्ति गुणांश्च गृह्णन् । आत्मानं स्वयमेव करोति सदोषं च सगुणं च ॥४. "अणुवओगो दव्वमिति कट्टु” इति अनुयोगद्वारसूत्रे, सू० १४,४८२,५६१।
For Private & Personal Use Only
पञ्चमोऽध्यायः
१०५
www.jainelibrary.org