________________
सवृत्तिके धर्मबिन्दौ
१०४
| पञ्चमोऽध्यायः
अपापस्यैवं मे कथमपरथा मत्सरमयं जनो याति स्वार्थं प्रति विमुखतामेत्य सहसा?॥१७१।। [ ] एतदेवाह
भावत: प्रयत्नः ॥१८॥२८७।। इति । भावत: चित्तपरिणामलक्षणात् प्रयत्न: परोद्वेगाहेतुतायामुद्यम: कार्य: इति, अयमत्र भाव:- यदि कथञ्चित् तथाविधप्रघट्टकवैषम्यात् कायतो वचनतो वा न परोद्वेगहेतुभाव: परिहर्तुं पार्यते तदा भावतोऽरुचिलक्षणात् परोद्वेगं परिहर्तुं यत्न: कार्य:, भावस्यैव फलं प्रति अवन्ध्यहेतुत्वात् । उक्तं चअभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽत: स एवेह वारीव कृषिकर्मणि ॥१७२॥ [योगदृष्टि० ११८] इति ।।१८|| तथा
अशक्ये बहिश्शारः ॥१९॥२८८।। इति । अशक्ये कुतोऽपि वैगुण्यात् समाचरितुमपार्यमाणे तपोविशेषादौ क्वचिदनुष्ठाने बहिश्चारो बहिर्भावलक्षण: तस्मात् कार्य:, अशक्यं नारब्धव्यमित्यर्थः, अशक्यारम्भस्य क्लेशैकफलत्वेन साध्यसिद्धरनङ्गत्वात् ॥१९॥ तथा
अस्थानाभाषणम् ॥२०॥२८९।। इति । अस्थाने भाषितोपयोगायोग्यत्वेनाप्रस्तावे अभाषणं कस्यचित् कार्यस्याभणनम्, एवमेव साधो षासमितत्वशुद्धिः स्यादिति ॥२०॥ तथा
स्खलितप्रतिपत्तिः ॥२१।।२९०॥ इति ।। कुतोऽपि तथाविधप्रमाददोषात् स्खलितस्य क्वचिन्मूलगुणादावाचारविशेषे स्खलनस्य विराधनालक्षणस्य जातस्य प्रतिपत्ति: स्वतः परेण वा प्रेरितस्य सतोऽभ्युपगमः तत्रोदितप्रायश्चित्ताङ्गीकारेण कार्यः, स्खलितकालदोषाद् अनन्तगुणत्वेन दारुणपरिणामत्वात् तदप्रतिपत्तेः, अत एवोक्तम्
उप्पण्णा उप्पण्णा माया अणुमग्णओ निहंतव्वा । आलोअणनिंदणगरिहणाहि न पुणो वि बीयं ति ॥१७३|| [पञ्चव० ४६४] अणायारं परक्कम्म नेव गूहे न निण्हवे । सुई सया वियडभावे असंसत्ते जिइंदिए ॥१७४॥ [दशवै० ८।३२]॥२१॥ तथा
पारुष्यपरित्यागः ॥२२॥२९१।। इति । पारुष्यस्य तीव्रकोपकषायोदयविशेषात् परुषभावलक्षणस्य तथाविधभाषणादेः स्वपक्ष-परपक्षाभ्यामसंबन्धयोग्यताहेतोः परित्याग: कार्यः, १.परपरुष ।
१०४
www.jainelibrary.org
For Private & Personal use only
Jain Education International