________________
सवृत्तिके धर्मबिन्दौ १०२
पञ्चमोऽध्यायः
आरम्भस्य षट्कायोपमर्दरूपस्य त्यागः ॥९॥ एतदुपायमेवाह
पृथिव्याद्यसङ्घट्टनम् ॥१०॥२७९॥ इति । पृथिव्यादीनां जीवनिकायानाम् असङ्घट्टनम्, सङ्घट्टनं स्पर्शनम्, तत्प्रतिषेधादसट्टनम्, उपलक्षणत्वादगाढ-गाढपरितापना-उपद्रावणानां च परिहार इति ॥१०॥ तथा
विधेर्याशुद्धिः ॥११॥२८०।। इति ।। त्रिधा ऊर्ध्वाधस्तिर्यग्दिगपेक्षया ईर्याया: चङ्क्रमणस्य शुद्धिः युगमात्रादिदृष्टिनिवेशरूपा ॥११॥ तथा
भिक्षाभोजनम् ॥१२॥२८१।। इति । इह त्रिधा भिक्षा सर्वसम्पत्करी पौरुषघ्नी वृत्तिभिक्षा चेति । तल्लक्षणं चेदम्यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसम्पत्करी मता ॥१६॥ वृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाटतः । गृहि-देहोपकाराय विहितेति शुभाशयात् ॥१६२॥ प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य पौरुषघ्नी प्रकीर्तिता ॥१६३॥ [हा० अष्टके ५/२,३,४] नि:स्वा-ऽन्ध-पङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ॥१६४॥ [हा०अष्टके ५/६] इति। ततो भिक्षया प्रस्तावात् सर्वसम्पत्करीलक्षणया पिण्डमुत्पाद्य भोजनं विधेयमिति ॥१२॥ तथा
आघाताद्यदृष्टिः ॥१३॥२८२॥ इति । आघात्यन्ते हिंस्यन्ते जीवा अस्मिन्निति आघात: सूनादिस्थानम्, आदिशब्दात् द्यूत-खलादिशेषप्रमादस्थानग्रहः, तत: आघातादेरदृष्टिः अनवलोकनं कार्यम्, तदवलोकने हि अनादिभवाभ्यस्ततया प्रमादानां तत्कौतुकात् कोपादिदोषप्रसङ्गात् इति ॥१३।। तथा
तत्कथाऽश्रवणम् ।।१४।।२८३।। इति । १.इत आरभ्य षट् पत्राणि K मध्ये न सन्ति ।।२.शूना L.IN
१०२
Jain Education International
For Private & Personal use only
www.jainelibrary.org