SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १०१ पञ्चमोऽध्यायः तत्र तयोः सापेक्ष-निरपेक्षयतिधर्मयोर्मध्यात् सापेक्षयतिधर्मोऽयं भण्यते ॥२॥ यथा गुर्वन्तेवासिता॥३॥२७२॥ इति। गुरोः प्रव्राजकाचार्यस्य अन्तेवासिता शिष्यभावः यावज्जीवमनुष्ठेया, तच्छिष्यभावस्य महाफलत्वात्, पठ्यते चनाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं न मुंचंति ॥१५९॥ [बृहत्कल्पभाष्ये ५७१३] तथा तद्भक्ति-बहुमानौ ॥४॥२७३।। इति। तस्मिन् गुरौ भक्ति: समुचितान्नपानादिनिवेदन-पादप्रक्षालनादिरूपा बहुमानश्च भावप्रतिबन्धः ॥५॥ तथा सदाज्ञाकरणम् ॥५॥२७४।। इति। सदा सर्वकालम् अह्रि रात्रौ चेत्यर्थः आज्ञायाः गुरूपदिष्टस्वरूपाया: करणम् ॥६।। तथा विधिना प्रवृत्तिः ॥६॥२७५।। इति। विधिना शास्त्रोक्तेन प्रवृत्तिः प्रत्युपेक्षणा-प्रमार्जना-भिक्षाचर्यादिषु साधुसमाचारेषु व्यापारणम् ।।६।। तथा आत्मानुग्रहचिन्तनम् ॥७॥२७६।। इति। क्वचिदप्यर्थे गुर्वाज्ञायां आत्मानुग्रहस्य उपकारस्य चिन्तनं विमर्शनम्, यथाधन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः ॥१६०॥ [प्रशम०७०] इति । तथा व्रतपरिणामरक्षा ॥८॥२७७।। इति । व्रतपरिणामस्य चारित्रलक्षणस्य तत्तदुपसर्ग-परीषहादिषु स्वभावत एव व्रतबाधाविधायिषु सत्सु रक्षा चिन्तामणि-महौषध्यादिरक्षणोदाहरणेन परिपालना विधेया ।।८।। तथा आरम्भत्यागः ॥९॥२७८।। इति । १.गाथेयं पञ्चवस्तुके १३५८, उपदेशपदे ६८२ चाप्यस्ति ॥ २.कचिदर्थे । विना ॥ Jan Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy