________________
सवृत्तिके
धर्मबिन्दौ
१००
अथ पञ्चमोऽध्यायः
व्याख्यातश्चतुर्थोऽध्यायः अथ पञ्चमो व्याख्यायते, तस्य चेदमादिसूत्रम्
बाहुभ्यां दुस्तरो यद्वत् क्रूरनक्रो महोदधिः । यतित्वं दुष्करं तद्वदित्याहुस्तत्त्ववेदिनः ।। २५ ।। इति।
बाहुभ्यां भुजाभ्यां दुस्तरः कृच्छ्रेण तरीतुं शक्यः यद्वदिति दृष्टान्तार्थः, क्रूरनक्रः, क्रूरा भीषणा नक्रा जलजन्तुविशेषा उपलक्षणत्वात् मत्स्य-मकर-सुसुमारादयश्च यत्र स तथा, महोदधिः महासमुद्रः, यतित्वं श्रामण्यं दुष्करं दुरनुष्ठेयं तद्वदिति दार्शन्तिकार्थः, इत्येतदाहुः उक्तवन्तः, के इत्याह- तत्त्ववेदिनः प्रव्रज्यापरमार्थज्ञातार इति ||१|| अस्यैव दुष्करत्वे हेतुमाह
Jain Education International
अपवर्गः फलं यस्य जन्म-मृत्य्वादिवर्जितः । परमानन्दरूपश्च दुष्करं तन्न चाद्भुतम् ॥ २६ ॥ इति।
अपवर्गों मोक्षः फलं कार्यं यस्य यतित्वस्य जन्म-मृत्य्वादिवर्जितः जन्म-मरण - जरादिसंसारविकारविरहितः, तथा परमानन्दरूपः सर्वोपमातीतानन्दस्वभावः, चकारो विशेषणसमुच्चये, दुष्करं कृच्छ्रेण कर्तुं शक्यं तत् यतित्वम्, न च नैवाद्भुतम् आश्चर्यमेतत्, अत्यन्तमहोदयानां विद्या - मन्त्रौषधादिसाधनानामिहैव दुष्करत्वोपलम्भात् इति ॥२॥ एवं तर्हि कथमतिदुष्करं यतित्वं कर्तुं शक्यं स्यादित्याशङ्कयाहभवस्वरूपविज्ञानात्तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच्च स्यादेतन्नान्यथा क्वचित् ॥ २७ ॥ इति ।
भवस्वरूपस्य इन्द्रजाल-मृगतृष्णिका - गन्धर्वनगर-स्वप्नादिकल्पस्य विज्ञानात् सम्यक्श्रुतलोचनेन अवलोकनात् प्राक्, तदनु तद्विरागात् तप्तलोहपदन्यासोद्विजनन्यायेन भवस्वरूपोद्वेगात्, चकारो हेत्वन्तरसमुच्चये, तत्त्वतः निर्व्याजवृत्त्या, तथा अपवर्गानुरागात् परमपदस्पृहातिरेकात्, चशब्दः प्राग्वत्, स्याद् भवेदेतद् यतित्वम्, नान्यथा नान्यप्रकारेण क्वचित् क्षेत्रे काले वा सम्यगुपायमन्तरेणोपेयस्य कदाचिदभावादिति ॥३॥ इत्युक्तो यति:, अधुनाऽस्य धर्ममनुवर्णयिष्यामः, यतिधर्मो द्विविधः - सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्च ||१|| २७०॥इति। प्रतीतार्थमेव परं गुरु- गच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां परिपालयति स सापेक्षः, इतरस्तु निरपेक्षो यतिः, तयोर्धर्मोऽनुक्रमेण गच्छवासलक्षणो जिनकल्पादिलक्षणश्चेति ॥ १ ॥
तत्र सापेक्षयतिधर्मः ||२|| २७१ ।। इति ।
For Private & Personal Use Only
पञ्चमोऽध्यायः
१००
www.jainelibrary.org