________________
सवृत्तिके धर्मबिन्दौ
चतुर्थोऽध्यायः
उपायत: उपायेन निरवद्यानुष्ठानाभ्यासरूपेण कायानां पृथिव्यादीनां पालनं रक्षणं प्रविव्रजिषुः प्राणी कार्यत इति ॥३६॥ तथा
भाववृद्धिकरणम् ॥३७॥२६३॥ इति । भावस्य प्रव्रज्याभिलाषलक्षणस्य वृद्धिः उत्कर्षः, तस्याः तैस्तै: प्रव्रज्याफलप्ररूपणादिवचनैः करणं सम्पादनं तस्य ॥३७॥ तथा
अनन्तरानुष्ठानोपदेशः ॥३८॥२६४।। इति । अनन्तरानुष्ठानस्य प्रव्रज्याग्रहणानन्तरमेव करणीयस्य 'गुर्वन्तेवासिता-तद्भक्तिबहुमानादेः' अनन्तराध्याये एव वक्ष्यमाणस्योपदेशः तस्य कार्यः ॥३८॥ तथा
शक्तितस्त्याग-तपसी ॥३९॥२६५।। इति । शक्तित: शक्तिमपेक्ष्य त्यागं च अर्थव्ययलक्षणं देव-गुरु-सङ्घपूजादौ विषये तपश्च अनशनादि कारणीयः स इति ॥३९॥ तथा
क्षेत्रादिशुद्धौ वन्दनादिशुद्धया शीलारोपणम् ॥४०॥२६६।। इति। क्षेत्रस्य भूमिभागलक्षणस्य आदिशब्दाद्दिशश्च शुद्धौ सत्यां वन्दनादिशुद्धया चैत्यवन्दन-कायोत्सर्गकारणसाधुनेपथ्यसमर्पणादिसमाचारचारुतारूपया शीलस्य सामायिकपरिणामरूपस्य करेमि भंते! सामायिकमित्यादिदण्डकोच्चारणपूर्वकमारोपणं प्रव्रज्या न्यसनं गुरुणा कार्यमिति । तत्र क्षेत्रशुद्धिः इक्षुवनादिरूपा, यथोक्तम्
उच्छवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीरसाणुणाए पयाहिणजले जिणहरे वा ॥१५७॥ तथापुव्वाभिमुहो उत्तरमुहोब्व दिज्जाऽहवा पडिच्छेज्जा । जाए जिणादओ वा दिसाए जिणचेइयाई वा ॥१५८॥ [विशे० ३४०४, ३४०६]।।इति।
शीलमेव व्याचष्टे१.कार्य इति L ॥ २.५/३,४॥३."इक्षुवणादीनां समीपे दद्यात् सामायिकम्, न तु भग्नध्यामितगृहादिप्रदेशे । द्राक्षा-चन्दनलताद्याच्छादितप्रदेशो गम्भीरः, यत्र जल्पतां प्रतिशब्द उत्तिष्ठते स प्रदेश: सानुनाद इति" इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ ।। ४. मिए वण' मूo KI 'मिए य वण' सं०॥ ५.इक्षुवणे शालिवने पद्यसरसि कुसुमिते वा वनषण्डे गम्भीरे सानुनादे प्रदक्षिणजले जिनगृहे वा ।। पूर्वाभिमुख उत्तरमुखो वा दद्यादथवा प्रतीच्छेत् । यस्यां जिनादयो वा दिशि जिनचैत्यानि वा ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org