________________
सवृत्तिके धर्मबिन्दौ
असङ्गतया समशत्रुमित्रता शीलम् ॥४१॥२६७।। इति । असङ्गतया क्वचिदपि अर्थे प्रतिबन्धाभावेन समशत्रुमित्रता शत्रौ मित्रे च समानमनस्कता शीलमुच्यत इति ॥४२।। ननु स्वपरिणामसाध्यं शीलं तत् किमस्य क्षेत्रादिशुद्धयारोपणेनेत्याशङ्क्याह
अतोऽनुष्ठानात्तद्भावसम्भवः ॥४२॥२६८॥ इति । अत: अस्माद् अनुष्ठानाद् उक्तरूपशीलारोपणलक्षणात्तद्धावस्य शीलपरिणामलक्षणस्य सम्भव: समुत्पादः प्रागसतोऽपि जायते, सतश्च चतुर्थोऽध्यायः स्थिरीकरणमिति ।।४२।। तथा
तपोयोगकारणं चेति ॥४३॥२६९।। इति । स एवं विधिप्रव्रजित: सन् गुरुपरम्परयाऽऽगतमाचाम्लादितपोयोगं कार्यत इति ॥४३।। अथोपसंहारमाह
__ एवं यः शुद्धयोगेन परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यति: परिकीर्तितः ॥२२॥इति । एवम् उक्तरूपेण यो भव्यविशेष: शुद्धयोगेन सम्यगाचारविशेषेण परित्यज्य हित्वा गृहाश्रमं गृहास्थावस्थां संयमे हिंसादिविरमणरूपे रमते आसक्तिमान् भवति स एवंगुणो यति: उक्तनिरुक्तः परिकीर्तित इति । अत्रैवाभ्युच्चयमाह
एतत्तु सम्भवत्यस्य सदुपायप्रवृत्तितः । अनुपायात्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः ॥२३॥ इति। एतत् पुन: यतित्वं सम्भवत्यस्य प्रव्रजितस्य सत:, कुत इत्याह- सदुपायप्रवृत्तितः, सता सुन्दरेण उपायेन अर्कोऽहंसमीपे' इत्याद्युक्तरूपेण प्रवृत्ते: चेष्टनात्, अत्रैव व्यतिरेकमाह- अनुपायात्तु उपायविपर्यात् पुनः सिद्धिं सामान्येन सर्वस्य कार्यस्य निष्पत्तिं नेच्छन्ति न प्रतिपद्यन्ते पण्डिता: कार्यकारणविभागकुशलाः, यत: पठन्ति-नाकारणं भवेत् कार्यम् [ ] इत्यादि । उक्तविपर्यये दोषमाह
यस्तु नैवंविधो मोहाच्चेष्टते शास्त्रबाधया । स तादृग्लिङ्गयुक्तोऽपि न गृही न यतिर्मतः ॥२४॥इति । यस्तु य: पुनरद्याप्यतुच्छीभूतभवभ्रमणशक्ति: न नैव एवंविध: किन्तु उक्तविधिविपरीत: मोहाद् अज्ञानात् चेष्टते प्रवर्तते शास्त्रबाधया १.इति नास्ति J.K. || २. ४॥२॥
९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org