________________
सवृत्तिके | यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यौषधसम्पादनेन जीवयेदात्यन्तिकम् अपुनर्मरणे[5]मरणावन्ध्यबीजयोगेन, सम्भवात्
सुपुरुषोचितमेतद्, यतो दुष्प्रतिकारौ नियमान्मातापितरौ शेषश्च यथोचितं स्वजनलोकः, एष धर्म: सज्जनानाम्, भगवानत्र ज्ञातं परिहरन्नकुशलानुबन्धिमाता-पित्रादिशोकमिति ॥३१॥
तथा गुरुनिवेदनम् ॥३२॥२५८॥ इति । तथेति विध्यन्तरसमुच्चयार्थः, गुरुनिवेदनं सर्वात्मना गुरोः प्रव्राजकस्यात्मसमर्पणं कार्यमिति ॥३२।। इत्थं प्रव्रज्यागतं विधिमभिधाय प्रव्राजकगतमाह
अनुग्रहधियाऽभ्युपगमः ॥३३॥२५९॥ इति। गुरुणा अनुग्रहधिया सम्यक्त्वादिगुणारोपणबुद्धया अभ्युपगम: 'प्रव्राजनीयस्त्वम्' इत्येवंरूप: कार्यः, न पुन: स्वपरिषत्पूरणादिबुद्धयेति ॥३३।।
चतुर्थोऽध्यायः
तथा
निमित्तपरीक्षा ॥३४॥२६०॥ इति। निमित्तानां भाविकार्यसूचकानां शकुनादीनां परीक्षा निश्चयनं कार्यम्, निमित्तशुद्धेः प्रधानविधित्वात् इति ॥३४|| तथा
___ उचितकालापेक्षणम् ॥३५॥२६१।। इति। उचितस्य प्रव्रज्यादानयोग्यस्य कालस्य विशिष्टतिथि-नक्षत्रादियोगरूपस्य गणिविद्यानामकप्रकीर्णकनिरूपितस्यापेक्षणम् आदरणमिति, यतस्तत्र पठ्यते
तिहिं उत्तराहिं तह रोहिणीहिं कुज्जा उ सेहनिक्खमणं । गणिवायए अणुना महब्वयाणं च आरुहणा ॥१५५॥ [पञ्चव० ११२] तथाचाउद्दसिं पन्नरसिं वजेज्जा अट्ठमिं च नवमिं च । छडिं च चउत्थिं बारसिं च दोण्हं पि पक्खाणं ॥१५६॥ [गणिविद्या० ७] इत्यादि ।।३५||तथा
उपायत: कायपालनम् ।।३६॥२६२।। इति । १.प्रतिषु पाठा:-अपुनर्मरणामरणावन्ध्यबीजयोगेन K, अयमपि पाठः कथञ्चित् संगच्छत एव । अपुनर्मरणे मरणावस्यबीजयोगेन J.Lमूगा अपुनर्भरणेनामरणादन्थ्यबीजयोगेन Lसं.। तुलनार्थ दृश्यतां चतुर्थे परिशिष्टे ।। २.'श्रीवीर: दृष्टान्तः' इति L टिप्पणेऽस्य अर्थः स्पष्टीकृतः॥
। ९६
Jain Education International
For Private & Personal use only
www.jainelibrary.org