________________
. सवृत्तिके
धर्मबिन्दौ
९५
चतुर्थोऽध्यायः
यथाशक्ति सौविहित्यापादनम् ॥३०॥२५६।। इति । यथाशक्ति यस्य यावती शक्तिः शतसहस्रादिप्रमाणनिर्वाहहेतुद्रव्यादिसमर्पणरूपा तया सौविहित्यस्य सौस्थ्यस्यापादनं विधानम्, येन प्रव्रजितेऽपि तस्मिन्नसौ न सीदति तस्य निर्वाहोपायस्य करणमिति भावः, एवं कृते कृतज्ञता कृता भवति, करुणा च मार्गप्रभावनाबीजम्, ततस्तेनानुज्ञातः प्रव्रजेदिति ॥३०॥ अथैवमपि न तं मोक्तुमसावुत्सहते तदा
ग्लानौषधादिज्ञातात्त्यागः ॥३१॥२५७।। इति ।। ग्लानस्य तथाविधव्याधिबाधावशेन ग्लानिमागतस्य गुवदिलॊकस्य औषधादिज्ञातात् औषधस्य आदिशब्दात् स्वनिर्वाहस्य च ग्रहः, तस्य गवेषणमपि औषधादीत्युच्यते, ततो ग्लानौषधाद्येव ज्ञातं दृष्टान्तः, तस्मात्, त्यागः कार्यो गुर्वादरिति। इदमुक्तं भवति- यथा कश्चित् कुलपुत्रकः कथञ्चिदपारं कान्तारं गतो माता-पित्रादिसमेत: तत्प्रतिबद्धश्च तत्र व्रजेत्, तस्य च गुर्वादः तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्य: तथाविधौषधादिप्रयोगयोग्यश्च महानातङ्कः स्यात्, तत्र चासौ तत्प्रतिबन्धादेवमालोचयति- यथा न भवति नियमादेष गुरुजनो नीरुक् औषधादिकमन्तरेण,
औषधादिभावे च संशयः कदाचित् स्यात् कदाचिनेति, कालसहश्चायम्, तत: संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदौषधादिनिमित्तं स्ववृत्तिहेतोश्च त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, य: पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमत्र प्रधानम्,धीराश्चैतद्दर्शिन एव भवन्ति,तत औषधसम्पादनेन तं जीवयेदपीति सम्भवात् सत्पुरुषोचितमेतत्।
एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो माता-पित्रादिसङ्गतो धर्मप्रतिबद्धो विहरेत्, तेषां च तत्र नियमविनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः, सम्भवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षण: कर्मातङ्क: स्यात्, तत्र स शुक्लपाक्षिक: पुरुषो धर्मप्रतिबन्धादेवं समालोचयति, यदुत- विनश्यन्त्येतान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्सम्पादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यावद् गृहवासं निर्वाहादिचिन्तया तथा संस्थाप्य तेषां सम्यक्त्वाद्यौषधनिमित्तं स्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्ध्या साधुरेव, एष त्यागोऽत्यागस्तत्त्वभावनातः, अत्याग एव च त्यागो मिथ्याभावनातः, तत्त्वफलमत्र प्रधानं बुधानाम्, १.तथा तथा संस्थाप्य Kमू०॥
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org