________________
सवृत्तिके
धर्मबिन्दौ
९४
चतुर्थोऽध्यायः
तथा तथोपधायोगः ॥२४॥२५०॥ इति । तथा तथा तेन तेन प्रकारेण सर्वथा परैरनुपलक्ष्यमाणेन उपधायोग: मायायाः प्रयोजनम् ।।२४।। कथमित्याह
दुःस्वप्नादिकथनम् ॥२५॥२५१।। इति । दुःस्वप्नस्य खरोष्ट्र-महिषाद्यारोहणादिदर्शनरूपस्य आदिशब्दान्मातृमण्डलादिविपरीतालोकनादिग्रहः, तस्य कथनं गुर्वादिनिवेदनमिति ॥२५।। तथा
विपर्ययलिङ्गसेवा ॥२६॥२५२॥ इति । विपर्यय: प्रकृतिविपरीतभावः, स एव मरणसूचकत्वात् लिङ्गम्, तस्य सेवा निषेवणं कार्य येन स गुर्वादिजन: संनिहितमृत्युरयमित्यवबुध्य प्रव्रज्यामनुजानीते इति ॥२६।। विपर्ययलिङ्गानि तेषु स्वयमेवाबुध्यमानेषु किं कृत्यमित्याह
दैवज्ञैस्तथा तथा निवेदनम् ॥२७॥२५३॥ इति । दैवज्ञैः निमित्तशास्त्रपाठकैः तथा तथा तेन तेन निमित्तशास्त्रपाठादिरूपेणोपायेन निवेदनं गुर्वादिजनस्य ज्ञापनं विपर्ययलिङ्गानामेव कार्यमिति ॥२७॥ नन्वेवं मायाविनः प्रव्रज्याप्रतिपत्तावपि को गुणः स्यादित्याशङ्कयाह
न धर्मे माया ॥२८॥२५४।। इति । न नैव धर्मे साध्ये माया क्रियमाणा माया वञ्चना भवति, परमार्थतोऽमायात्वात्तस्याः ॥२८॥ एतदपि कुत इत्याह
उभयहितमेतत् ॥२९॥२५५।। इति । उभयस्य स्वस्य गुर्वादिजनस्य च हितं श्रेयोरूपम् एतद् एवं प्रव्रज्याविधौ मायाकरणम्, एतत्फलभूताया: प्रव्रज्याया: स्वपरोपकारकत्वात्, पठचते च
अमायोऽपि हि भावेन माय्येव तु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबन्धं हितोदयम् ॥१५४॥ [ ] इति । अथेत्थमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयमित्याशङ्कयाह
९४
Jain Education International
For Private & Personal use only
www.jainelibrary.org