________________
सवृत्तिके
धर्मबिन्दौ
९३
Jain Education International
उपस्थितस्य प्रश्ना-ssचारकथन- परीक्षादिर्विधिः ||२२|| २४८ ॥ इति ।
उपस्थितस्य स्वयं प्रव्रज्यां ग्रहीतुं समीपमागतस्य, प्रश्नश्च आचारकथनं च परीक्षा च प्रश्नाचारकथनपरीक्षा: ता आदिर्यस्य स तथा, आदिशब्दात् कण्ठतः सामायिकादिसूत्रप्रदानतथाविधानुष्ठानाभ्यासग्रहः, विधिः क्रमः प्रव्रज्याप्रदाने पूर्वसूत्रसूचित एषः, इदमुक्तं भवति - सद्धर्मकथाक्षिप्ततया प्रव्रज्याभिमुख्यमागतो भव्यजन्तुः पृच्छनीय: यथा 'को वत्स ! त्वम्, किंनिमित्तं वा प्रव्रजसि ?' ततो यद्यसौ कुलपुत्रकः तगरानगरादिसुन्दरक्षेत्रोत्पन्नः 'सर्वाशुभोद्भवभवव्याधिक्षयनिमित्तमेवाहं भगवन् ! प्रव्रजितुमुद्यतः' इत्युत्तरं कुरुते तदाऽसौ प्रश्नशुद्धः । ततोऽस्य 'दुरनुचरा प्रव्रज्या कापुरुषाणाम्, आरम्भनिवृत्तानां पुनरिह परभवे च परमः कल्याणलाभ:, तथा यथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसारफलदुःखदायिनी, तथा यथा कुष्ठादिव्याधिमान् क्रियां प्राप्तकालां प्रतिपद्यापथ्यमासेवमानो अप्रवृत्तादधिकं शीघ्रं च विनाशमाप्नोति एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिकं कर्म समुपार्जयति' इत्येवं तस्य साध्वाचारः कथनीय इति २ । एवं कथितेऽपि साध्वाचारे निपुणमसौ परीक्षणीय:, यतः -
असत्याः सत्यसङ्काशाः, सत्याश्चासत्यसन्निभाः । दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥१५२॥ [महाभारते शान्तिपर्वणि १२।१९२।६१ ] अंतथ्यान्यपि तथ्यानि, दर्शयन्त्यतिकौशलाः । चित्रे निम्नोन्नतानीव चित्रकर्मविदो जनाः || १५३ || [महाभारते अनुशासनपर्वणि ] परीक्षा च सम्यक्त्व - ज्ञान चारित्रपरिणतिविषया तैस्तैरुपायैर्विधेया, परीक्षाकालश्च प्रायतः षण्मासा:, तथाविधपात्रापेक्षया तु अल्पो बहु स्यात् ३ | तथा सामायिकसूत्रम् अकृतोपधानस्यापि कण्ठतो वितरणीयम्, अन्यदपि सूत्रं पात्रतामपेक्ष्याध्यापयितव्यः ४||२२|| तथा
गुरुजनाद्यनुज्ञा ||२३|| २४९ ।। इति ।
गुरुजनो माता-पित्रादिलक्षणः, आदिशब्दात् भगिनी - भार्यादिशेषसम्बन्धिलोकपरिग्रहः, तस्य अनुज्ञा 'प्रव्रज त्वम्' इत्यनुमतिरूपा विधिरित्यनुवर्तते ॥२३॥ यदा पुनरसौ तत्तदुपायतोऽनुज्ञापितोऽपि न मुञ्चति तदा यद् विधेयं तदाह -
१. फला दुःख 1. । तुलना - पञ्चव० ११९ ।। २. यथाहि LII ३. इत्येवं च तस्य LII ४. सत्याश्चासत्यदर्शिनः (दर्शनाः इति प्रत्यन्तरे) इति महाभारते पाठः ॥ ५. स्तेषु युक्तं इत्यपि महाभारते क्वचित् पुस्तके पाठः । ६. अतथ्यान्यपि तथ्यानि दर्शयन्त्यपि पेशलाः । समे निम्नोन्नतानीव चित्रं (त्र) कर्मविदो जनाः ।। " इति महाभारते अनुशासनपर्वणि १५० तमाध्यायानन्तरं ८७ तमः श्लोकः, दृश्यताम् अनुशासनपर्वणि Appendix 20, lines 173-174 ॥७. स प्रव्राज्य इति भावः ॥
For Private & Personal Use Only
चतुर्थोऽध्यायः
९३
www.jainelibrary.org