SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ वृत्ति धर्मबिन्दौ ९२ Jain Education International न नैव दोषः अघटनालक्षणः कश्चित् योग्यतायां कार्षापणधनस्यापि तथाविधभाग्योदयात् प्रतिदिनं शतगुणसहस्रगुणादिकार्षापणोपार्जनेन कोटिव्यवहारारोपणोचितत्वलक्षणायाम्, श्रूयन्ते च केचित् पूर्वं तुच्छव्यवहारा अपि तथाविधभाग्यवशेन स्वल्पेनैव कालेन कोटिव्यवहारमारूढा इत्येतत् विश्वो विश्वामा प्रवादी प्राहेति, अयं च मनाक् सम्राण्मत मनुसरतीति ॥ १८ ॥ अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुः ||१९|| २४५ || इति । अन्यतरस्य कस्यचिद् गुणस्य वैकल्येऽपि किं पुनरवैकल्ये इत्यपिशब्दार्थः, गुणबाहुल्यमेव गुणभूयस्त्वमेव सा पूर्वसूत्रसूचिता योग्यता चतुर्थोऽध्यायः तत्त्वत: परमार्थवृत्त्या वर्तते, अतो न पादगुणहीनादिचिन्ता कार्येत्येतत् सुरगुरुः बृहस्पतिरुवाचेति ||१९|| सर्वमुपपन्नमिति सिद्धसेनः ||२०|| २४६ || इति । समस्तेष्वपि धर्मार्थकाममोक्षव्यवहारेषु पुरुषपराक्रमसाध्येषु विषये यद् यदा उपपन्नं घटमानं निमित्ततया बुद्धिमद्भिरुत्प्रेक्ष्यते तत् सर्वमखिलं सत्यनुवर्तते उपपन्नत्वस्य योग्यताया अभिन्नत्वादिति सिद्धसेनो नीतिकार: शास्त्रकृद्विशेषो जगाद ||२०|| इत्थं दश परतीर्थिकमतान्युपदर्श्य स्वमतमुपदर्शयन्नाह भवन्ति त्वल्पा अपि असाधारणा गुणाः कल्याणोत्कर्षसाधका इति ॥२१॥२४७॥ भवन्ति न न भवन्ति, तुः पूर्वमतेभ्योऽस्य वैशिष्ट्यख्यापनार्थः, अल्पा अपि परिमिता अपि किं पुनरनल्पा इत्यपिशब्दार्थः, गुणा आर्यदेशोत्पन्नतादयः असाधारणाः सामान्यमानवेष्वसम्भवन्तः कल्याणोत्कर्षसाधकाः प्रव्रज्याद्युत्कृष्टकल्याणनिष्पादकाः, असाधारणगुणानां नियमादितरगुणाकर्षणावन्ध्यकारणत्वादिति युक्तमुक्तमादौ यदुत पादार्द्धगुणहीनो मध्यमावरौ योग्याविति 1 अत्र वायु- वाल्मीकि - व्यास सम्राड्-नारद-वसु-क्षीरकदम्बमतानां कस्यचित् केनापि संवादेऽप्यन्यतरेण निराक्रियमाणत्वादनादरणीयतैव, विश्व-सुरगुरुसिद्धसेनमतेषु च यद्यसाधारणगुणाना दरणेन योग्यताङ्गीक्रियते तदा न सम्यक्, तस्याः परिपूर्णकार्यासाधकत्वात्, अथान्यथा तदाऽमन्व तैः शब्दान्तरेण कृतः स्यात्, न पुनः स्वमतस्थापनं किञ्चित् इति ॥ २१ ॥ इत्युक्तौ प्रव्राज्य प्रव्राजकौ, अधुना प्रव्रज्यादानविधिमभिधित्सुराह१. स्वल्पेनैव व्यवहारकालेन J ॥। २. योग्यतैव इत्यर्थः ] मध्ये टिप्पणे सूचितः ॥ ३ रणगुणा: JKL|| ४ दृश्यतां ४|५|| ५. नादरेण L|| ६. न तु स्वमत J For Private & Personal Use Only ९२ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy