SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थोऽध्यायः सम्भवादेव योग्यत्वादेव, न पुनर्गुणमात्रादेव केवलात् सम्भवविकलात्, श्रेयस्त्वसिद्धेः सर्वप्रयोजनानां श्रेयोभावनिष्पत्तेः, इदमुक्तं भवतिगुणमात्रे सत्यपि यावदद्यापि प्रव्राज्यादि वो विवक्षितकार्य प्रति योग्यतां न लभते न तावत्तत्तेनारब्धमपि सिध्यति, अनधिकारित्वात्तस्य, अनधिकारिणश्च सर्वत्र कार्ये प्रतिषिद्धत्वात्, अतो योग्यतैव सर्वकार्याणां श्रेयोभावसम्पादिकेति ॥१३|| यत्किञ्चिदेतदिति नारदः॥१४॥२४०॥ इति । यत्किञ्चित् न किञ्चिदित्यर्थः एतत् सम्राडुक्तमिति नारदो वक्ति ॥१४॥ कुत इत्याह गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगात् ॥१५॥२४१॥ इति । गुणमात्रात् योगयतामात्ररूपात् गुणान्तरस्य तथाविधस्य भावेऽप्युत्कर्षायोगात् उत्कृष्टानां गुणानामसम्भवात्, अन्यथा योग्यतामात्रस्य प्रायेण सर्वप्राणिनां सम्भवादुत्कृष्टगुणप्रसङ्गेन न कश्चित् सामान्यगुण: स्यात्, अतो विशिष्टैव योग्यता गुणोत्कर्षसाधिकेति सिद्धमिति ॥१५|| सोऽप्येवमेव भवतीति वसुः॥१६॥२४२॥ इति । सोऽपि गुणोत्कर्षः, किं पुनर्गुणमात्राद् गुणान्तरसिद्धिरित्यपिशब्दार्थः, एवमेव पूर्वगुणानामुत्तरोत्तरगुणारम्भकत्वेन भवति निष्पद्यते, निर्बीजस्य कस्यचित् कार्यस्य कदाचिदप्यभावादित्येतद् वसुः समयप्रसिद्धो राजविशेषो निगदति, एष च मनाग् व्यासमतानुसारीति ॥१६॥ अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बः ॥१७॥२४३।। इति। __ अयुक्तम् अघटमानकं कार्षापणधनस्य अतिजधन्यरूपकविशेषसर्वस्वस्य व्यवहारिणो लोकस्य तदन्यविढपनेऽपि, तस्मात् कार्षापणादन्येषां कार्षापणादीनां विढपने उपार्जने, किं पुनस्तदन्याविढपने इत्यपिशब्दार्थः, कोटिव्यवहारारोपणं कोटिप्रमाणानां दीनारादीनां व्यवहारे आत्मन आरोपणमिति, यतोऽतिबहुकालसाध्योऽयं व्यवहारः, न च तावन्तं कालं व्यवहारिणां जीवितं सम्भाव्यते । एवं च क्षीरकदम्ब-नारदयोर्न कश्चिन्मतभेदो यदि परं वचनकृत एवेति ॥१७॥ न दोषो योग्यतायामिति विश्वः ॥१८॥२४४।। इति । १.श्रेयस्त्वयोग्यत्वादेव L॥२:क्षितं कार्य L.||३.यत्किञ्चिदेतदित्यर्थः एतत्सम्राडुक्तमिति K.II Jain Education International For Private & Personal Use Only wow.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy