________________
सवृत्तिके
धर्मबिन्दौ
९०
नैतदेवमिति वाल्मीकिः ||८|| २३४|| इति । नैव तत् वायूक्तमिति एतत् प्राह वाल्मीकिः वल्मीकोद्भवः ऋषिविशेषः ॥८॥ कुत इत्याहनिर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेः || ९ || २३५ || इति ।
निर्गुणस्य सतो जीवस्य कथञ्चित् केनापि प्रकारेण स्वगतयोग्यताविशेषलक्षणेन प्रथमं तद्गुणभावोपपत्तेः तेषां समग्राणां प्रव्राज्यगुणानां प्रव्राजकगुणानां वा भावोपपत्तेः घटनासम्भवात्, तथाहि - यथा निर्गुणोऽपि सन् जन्तुर्विशिष्टकार्यहेतून् प्रथमं गुणान् लभते तथा यदि तद्गुणाभावेऽपि चतुर्थोऽध्यायः कथञ्चिद्विशिष्टमेव कार्यं लप्स्यते तदा को नाम विरोधः स्यात् ?, दृश्यते च दरिद्रस्यापि कस्यचिदकस्मादेव राज्यादिविभूतिलाभ इति ॥९॥
अकारणमेतदिति व्यासः ||१०|| २३६ ।। इति |
अकारणम् अप्रयोजनं निष्फलमित्यर्थः एतद् वाल्मीकिनिरूपितं वाक्यम् इत्येतद् ब्रूते व्यासः कृष्णद्वैपायनः ॥ १० ॥ कुत इत्याहगुणमात्रसिद्ध गुणान्तरभावनियमाभावात् ॥११॥ २३७॥ इति ।
गुणमात्रस्य स्वाभाविकस्य तुच्छस्यापि गुणस्य प्रथममसिद्धौ सत्यां गुणान्तरस्य अन्यस्य गुणविशेषस्य भावः उत्पाद: गुणान्तरभावः, तस्य नियमाद् अवश्यन्तया अभावाद् असत्त्वात्, स्वानुरूपकारणपूर्वको हि कार्यव्यवहारः, यतः पठ्यते
]
नाकारणं भवेत् कार्यम्, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् ॥ १५१ ॥ [ नान्यकारणकारणमिति न नैव अन्यस्य आत्मव्यतिरिक्तस्य कारणमन्यकारणम्, अन्यकारणं कारणं यस्य तत् तथा, पटादेः कारणं सूत्रपिण्डादिर्घटादेः कारणं न भवति इति भावः ||११||
Jain Education International
१. योजकं L ॥
नैतदेवमिति सम्राट् || १२ || २३८ ।। इति ।
नैतदेवमिति प्राग्वत् सम्राट् राजर्षिविशेषः प्राह ॥ १२॥ कुत इत्याह
सम्भवादेव श्रेयस्त्वसिद्धेः ||१३|| २३९|| इति ।
For Private & Personal Use Only
९०
www.jainelibrary.org