SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ८९ चतुर्थोऽध्यायः सवृत्तिके || प्राणिनां गुणान्तराधानधियाऽनुवृत्तिशीलः, गम्भीर: रोष-तोषाद्यवस्थायामप्यलब्धमध्यः, अविषादी न परीषहाद्यभिभूत: कायसंरक्षणादौ दैन्यमुपयाति, धर्मबिन्दौ उपशमलब्ध्यादिसम्पन्नः, उपशमलब्धि: परमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते, ततस्ताभिः सम्पन्न: समन्वितः प्रवचनार्थवक्ता यथावस्थितागमार्थप्रज्ञापकः, स्वगुर्वनुज्ञातगुरुपदः, स्वगुरुणा स्वगच्छनायकेनानुज्ञातगुरुपदः समारोपिताचार्यपदवीकः, चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः । अत्र षोडश प्रव्रज्याहगुणाः, पञ्चदश पुनर्गुरुगुणा निरूपिता इति ||४|| उत्सर्गपक्षश्चायम्, अथात्रैवापवादमाह पादार्द्धगुणहीनौ मध्यमा-ऽवरौ ॥५॥२३१॥ इति ।। पादेन चतुर्थभागेन अर्द्धन च प्रतीतरूपेण प्रस्तुतगुणानां हीनौ न्यूनौ प्रव्राज्य-प्रव्राजको मध्यमा-ऽवरौ मध्यम-जघन्यौ क्रमेण योग्यौ स्यातामिति ॥५॥ अथैतस्मिन्नेवार्थे परतीर्थिकमतानि दश स्वमतं चोपदर्शयितुमिच्छु: 'नियम एवायमिति वायुः' इत्यादिकं भवन्ति अल्पा अपि गुणा: कल्याणोत्कर्षसाधकाः' इत्येतत्पर्यन्तं सूत्रकदम्बकमाह नियम एवायमिति वायुः ।।६।२३२।। इति । नियम एव अवश्यम्भाव एव अयं यदुत परिपूर्णगुणो योग्यो नापर: पादप्रमाणादिहीनगुण: स्यादित्येवं वायुः वायुनामा प्रवादिविशेषः, प्राहेति सर्वत्र क्रिया गम्यते ॥६।। कुत इत्याह समग्रगणसाध्यस्य तदर्द्धभावेऽपि तत्सियसम्भवाद ॥७॥२३३॥ इति । ___ समग्रगुणसाध्यस्य कारणरूपसमस्तगुणनिष्पाद्यस्य कार्यस्य तदर्धभावेऽपि तेषां गुणानामर्द्धभावे उपलक्षणत्वात् पादहीनभावे च तत्सियसम्भवात्, तस्माद् गुणार्धात् पादोनगुणभावाद्वा या सिद्धिः निष्पत्तिः तस्या असम्भवाद् अघटनात्, अन्यथा कार्यकारणव्यवस्थोपरमः प्रसज्यत इति ।।७।। १.षड्जीवनिकायसंरक्षणादावित्यर्थः ।। २. सम्भवादिति L॥ ३.तस्मात् गुणाद् गुणार्धात् JII Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy