SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ या मेव रात्रिं प्रथमामुपैति गर्ने वसत्यै नरवीर ! लोकः । ततः प्रभृत्यस्खलितप्रयाण: स प्रत्यहं मृत्युसमीपमेति ॥१४८॥ [ नरवीर इति व्यासेन युधिष्ठिरस्य सम्बोधनमिति । दारुणो विपाको मरणस्यैवेति गम्यते, सर्वाभावकारित्वात्तस्येति । प्रागपि इति प्रव्रज्याप्रतिपत्तिपूर्वकाल एवेति । स्थिर इति प्रारब्धकार्यस्यापान्तराल एव न परित्यागकारी । समुपसम्पन्न इति समिति सम्यग्वृत्त्या सर्वथाऽऽत्मसमर्पणरूपया उपसम्पन्न: सामीप्यमागत इति ॥३॥ इत्थं प्रव्रज्याहमभिधाय प्रव्राजकमाह गुरुपदार्हस्तु इत्थम्भूत एव -विधिप्रतिपन्नप्रव्रज्य:१, समुपासितगुरुकुल:२, अस्खलितशील:३, सम्यगधीतागम:४, चतुर्थोऽध्यायः तत एव विमलतरबोधात्तत्त्ववेदी ५, उपशान्त:६, प्रवचनवत्सल: ७, सत्त्वहितरत: ८, आदेय: ९, अनुवर्तक: १०, गम्भीर: ११, अविषादी १२, उपशमलब्ध्यादिसम्पन्न:१३, प्रवचनार्थवक्ता १४, स्वगुर्वनुज्ञातगुरुपद १५ श्चेति ॥४॥२३०।। इति । ___गुरुपदार्हः प्रव्राजकपदयोग्यः, तुः पूर्वस्माद् विशेषणार्थ:, इत्थम्भूत एव प्रव्रज्याहगुणयुक्त एव सन् न पुनरन्यादृशोऽपि, तस्य स्वयं निर्गुणत्वेन प्रव्राज्यजीवगुणबीजनिक्षेपकरणायोगात्, किमित्याह- विधिप्रतिपन्नप्रव्रज्य: वक्ष्यमाणक्रमाधिगतदीक्षः, समुपासितगुरुकुल: विधिवदाराधितगुरुपरिवारभावः, अस्खलितशील: प्रव्रज्याप्रतिपत्तिप्रभृत्येवाखण्डितव्रतः, सम्यगधीतागम: सूत्रार्थोभयज्ञानक्रियादिगुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्यः, यत: पठ्यते तित्थे सुत्तत्थाणं गहणं विहिणा उ तत्थ तित्थमिदं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो ॥१४९॥ उभयन्नू वि य किरियापरो दढं पवयणाणुरागी य । ससमयपरूवगो परिणओ य पन्नो य अच्चत्थं ॥१५०॥ [उपदेशपदे ८५१-८५२] त्ति । तत एव सम्यगधीतागमत्वादेव हेतोर्यो विमलतरो बोध: शेषान् सम्यगधीतागमानपेक्ष्य स्फुटतरः प्रज्ञोन्मील: तस्मात् सकाशात् तत्त्ववेदी जीवादिवस्तुविज्ञाता, उपशान्त: मनोवाक्कायविकारविकलः, प्रवचनवत्सलः यथानुरूपं साधु-साध्वी-श्रावक-श्राविकारूपचतुर्वर्णश्रमणसङ्घवात्सल्यविधायी, सत्त्वहितरत: तत्तचित्रोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः, आदेयः परेषां ग्राह्यवचनचेष्टः, अनुवर्तकः चित्रस्वभावानां १.महाभारते शान्तिपर्वणि १६९ तमेऽध्याये ॥११॥' श्लोकानन्तरं 'यामेव रात्रिं प्रथमा गर्भो भजति मातरम् । तामेव रात्रिं प्रस्थाति मरणायानिवर्तकः ।।' इति प्रत्यन्तरे पाठः ।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy