SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ८७ स्तोकादप्यनुष्ठानादत्यन्तविशुद्धात् संकाशात् कालेन प्रत्याख्यानस्वरूपादि ज्ञातुर्भूयिष्ठमपि प्रत्याख्यानं सम्पद्यत इति ॥२१॥ इति विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्यामः ॥१॥२२७।।इति। प्रतीतार्थमेव ॥१॥ यत्यनुवर्णनमेवाह अर्हः अर्हसमीपे विधिप्रव्रजितो यतिः ॥२॥२२८॥ इति । अर्हः प्रवज्याझे वक्ष्यमाण एव अर्हस्य प्रव्रज्यादानयोग्यस्य वक्ष्यमाणगुणस्यैव गुरोः समीपे पार्थे विधिना वक्ष्यमाणेनैव प्रव्रजित: गृहीतदीक्षः चतुर्थोऽध्यायः यति: मुनिरित्युच्यते इति ॥२॥ यथोद्देशं निर्देशः' इति न्यायात् प्रव्रज्याहमेवाभिधित्सुराह अथ प्रव्रज्याहः - आर्यदेशोत्पन्नः१, विशिष्टजाति-कुलान्वित:२, क्षीणप्रायकर्ममल:३, तत एव विमलबुद्धिः ४, 'दुर्लभं मानुष्यम्, जन्म मरणनिमित्तम्, सम्पदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणम्, दारुणो विपाकः' इत्यवगतसंसारनैर्गुण्य:५, तत एव तद्विरक्त:६, प्रतनुकषाय: ७, अल्पहास्यादिः८, कृतज्ञः९, विनीत:१०, प्रागपि राजा-ऽमात्य-पौरजनबहुमत:११, अद्रोहकारी १२, कल्याणाङ्ग:१३, श्राद्ध:१४, स्थिर:१५, समुपसम्पन्न १६ श्चेति ॥३॥२२९॥ इति । एतत् सर्वं सुगमम्, परम् अथेत्यान्तर्यार्थः, प्रव्रजनं पापेभ्यः प्रकर्षण शुद्धचरणयोगेषु व्रजनं गमनं प्रव्रज्या, तस्या अर्हः योग्यः प्रव्रज्याहों जीव:, कीदृशः इत्याह- आर्यदेशोत्पन्न: मगधाद्यर्धषड्विंशतिमण्डलमध्यलब्धजन्मा, तथा विशिष्टजाति-कुलान्वित: विशुद्धवैवाह्यचतुर्वर्णान्तर्गतमातृ-पितृपक्षरूपजाति-कुलसम्पन्नः, तथा क्षीणप्रायकर्ममलः, क्षीणप्रायः उत्सन्नप्राय: कर्ममलो ज्ञानावरण-मोहनीयादिरूपो यस्य स तथा, तत एव विमलबुद्धिः यत एव क्षीणप्रायकर्ममल: तत एव हेतोर्विमलबुद्धिः निर्मलीमसमतिः, प्रतिक्षणं मरणमिति समयप्रसिद्धावीचिमरणापेक्षयेति, पठ्य ते च१.सकाशात् नास्ति J.LI Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy