SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थोऽध्यायः अथ चतुर्थोऽध्यायः। व्याख्यातस्तृतीयोऽध्यायः, साम्प्रतं चतुर्थ आरभ्यते, तस्य चेदमादिसूत्रम् - एवं विधिसमायुक्त: सेवमानो गृहाश्रमम् । चारित्रमोहनीयेन, मुच्यते पापकर्मणा ॥१९॥ इति । एवम् उक्तरूपेण विधिना सामान्यतो विशेषतश्च गृहस्थधर्मलक्षणेन समायुक्तः सम्पन्न: सेवमान: अनुशीलयन् गृहाश्रमं गृहवासम्, किमित्याहचारित्रमोहनीयेन प्रतीतरूपेण मुच्यते परित्यज्यते पापकर्मणा पापकृत्यात्मकेन ॥१॥ एतदपि कथमित्याह सदाज्ञाराधनायोगाद् भावशुद्धेर्नियोगतः । उपायसम्प्रवृत्तेश्च सम्यक्चारित्ररागतः ॥२०॥ इति । सन् अकलङ्कितो य आज्ञाराधन(ना?)योगो 'यतिधर्माभ्यासासहेनादौ श्रावकधर्मः अभ्यसनीय:' इत्येवंलक्षणो जिनोपदेशसम्बन्धः, तस्माद् यका भावशुद्धिः मनोनिर्मलता, तस्या: नियोगत: अवश्यन्तया, तथा उपायसम्प्रवृत्तेच, उपायेन शुद्धहेत्वङ्गीकरणरूपेण प्रवृत्ते: चेष्टनात्, चकारो हेत्वन्तरसमुच्चये, इयमपि कुत इत्याह-सम्यक्चारित्ररागत: निर्व्याजचारित्राभिलाषात्, इदमुक्तं भवति- सदाज्ञारांधनायोगात् यका भावशुद्धिः या च सम्यक्चारित्रानुरागत: उपायसम्प्रवृत्तिः अणुव्रतादिपालनरूपा ताभ्यामुभाभ्यामपि हेतुभ्यां चारित्रमोहनीयेन मुच्यते, न पुनरन्यथेति ।। आह–इदमपि कथं सिद्धं यथेत्थं चारित्रमोहनीयेन मुच्यते ततः परिपूर्णप्रत्याख्यानभाग् भवतीत्याशङ्कयाह विशुद्धं सदनुष्ठानं स्तोकमप्यर्हतां मतम् । तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि ॥२१॥ इति । विशुद्धं निरतिचारं अत एव सत् सुन्दरं अनुष्ठानं स्थूलप्राणातिपातविरमणादि स्तोकमपि अन्यतमैकभङ्गकप्रतिपत्त्या अल्पम्, बहु तावन्मतमेवेत्यपिशब्दार्थः, अर्हतां पारगतानां मतम् अभीष्टम्, कथमित्याह- तत्त्वेन तात्त्विकरूपतया, न पुनरतिचारकालुष्यदूषितं बलप्यनुष्ठानं सुन्दरं मतम्, तेन च तेन पुनर्विशुद्धानुष्ठानेन करणभूतेन स्तोकेनापि कालेन प्रत्याख्यानम् आश्रवद्वारनिरोधलक्षणं ज्ञात्वा गुरुमूले श्रृंतधर्मतया सम्यगवबुध्य प्रत्याख्यानस्य फलं हेतुं च सुबहपि सर्वपापस्थानविषयतया भूयिष्ठमपि करोतीति गम्यते, स्तोकं तावदनुष्ठानं सम्पन्नमेवेत्यपिशब्दार्थः, अयमभिप्राय:१.इत: K प्रतेरारम्भः ।। २.श्रुतमूलधर्मतया J॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy