________________
सवृत्तिके | धर्मबिन्दौ
आक्रामति पर्वतम् उज्जयन्तादिकं सम्यक् हस्त-पादादिशरीरावयवभङ्गाभावेन तथैव तेनैव प्रकारेण नियमाद् अवश्यन्तया धीरो निष्कलङ्कानुपालितश्रमणोपासकसमाचार: चारित्रपर्वतं सर्वविरतिमहाशैलमिति ॥१७॥ ननु एतदपि कथमित्थमित्याह
स्तोकान् गुणान् समाराध्य, बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः ॥१८॥ इति ॥ स्तोकान् तुच्छान् गुणान् श्रमणोपासकावस्थोचितान् समाराध्य पालयित्वा बहूनां सुश्रमणोचितगुणानां 'स्तोकानामाराधनायोग्यो जात एवं'इति अपिशब्दार्थः, जायते भवति यस्मात् कारणादाराधनायोग्यः परिपालनोचित: अविकलाल्पगुणाराधनाबलप्रलीनबहुगुणलाभबाधककर्मकलकत्वेन तद्गुणलाभसामर्थ्यभावात् तस्मात् कारणादादौ प्रथमत एव अयम् अनन्तप्रोक्तो गृहस्थधर्मो मतः सुधियां सम्मत: इति । पुरुषविशेषापेक्षोऽयं न्यायः, अन्यथा तथाविधाध्यवसायसामर्थ्यात्तदा एवाबलीभूतचारित्रमोहानां स्थूलभद्रादीनामेतत्क्रममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात् ॥१९॥
इति श्री मुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ विशेषतो गृहस्थधर्मविधिस्तृतीयोऽध्यायः समाप्त:।
तृतीयोऽध्यायः
१ इत आरभ्य १२७-१२८ इति पत्रद्वयं K मध्ये नास्ति ।
Jain Education International
Far Private
Personal use only
www.jainelibrary.org