SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ८४ तृतीयोऽध्यायः श्रामण्यानुरागः ॥९१।२२४।। इति । श्रामण्ये शुद्धसाधुभावे अनुरागो विधेयः, यथा जैन मुनिव्रतमशेषभवात्तकर्मसन्तानतानवकर स्वयमभ्युपेतः । कुर्यां तदुत्तरतरं च तपः कदाऽहम्, भोगेषु निःस्पृहतया परिमुक्तसङ्गः ॥१४६॥ [ ] इति ॥९१॥ तथा यथोचितं गुणवृद्धिः ॥९॥२२५।। इति । यथोचितं यो यदा वर्द्धयितुमुचितस्तस्य सम्यग्दर्शनादेर्गुणस्य दर्शनप्रतिमा-व्रतप्रतिमाभ्यासद्वारेण वृद्धिः पुष्टीकरणं कार्या ॥१२॥ तथा सत्त्वादिषु मैत्र्यादियोग इति ॥९॥२२६।। इति । सत्त्वेषु सामान्यतः सर्वजन्तुषु आदिशब्दाद्दुःखित-सुखित-दोषदूषितेषु मैत्र्यादीनाम् आशयविशेषाणां योगो व्यापार: कार्य:, मैत्र्यादिलक्षणं चेदम् - __परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥१४७॥ [षोड० ४।१५] इति: परिसमाप्तौ ।।९३।। सम्प्रत्युपसंहरनाह विशेषतो गृहस्थस्य, धर्म उक्तो जिनोत्तमैः । एवं सद्भावनासारः, परं चारित्रकारणम् ॥१६।। इति । विशेषत: सामान्यगृहस्थधर्मवैलक्षण्येन गृहस्थस्य गृहमेधिनो धर्मः उक्तो निरूपितो जिनोत्तमैः अर्हद्भिः एवम् उक्तनीत्या सद्भावनासारः परमपुरुषार्थानुकूलभावनाप्रधान: भावभावकधर्म इत्यर्थः, कीदृशोऽसावित्याह- परम् अवन्ध्यमिह भवान्तरे वा चारित्रकारणं सर्वविरतिहेतुः ॥१६॥ ननु कथं परं चारित्रकारणमसावित्याशझ्याह पदंपदेन मेधावी, यथारोहति पर्वतम् । सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् ॥१७॥ इह पदं पदिकोच्यते, ततः पदेन पदेन यदारोहणं तन्निपातनात् पदंपदेनेत्युच्यते, ततः पदंपदेन मेधावी बुद्धिमान् यथेति दृष्टान्तार्थ: आरोहति २.K. मध्ये इत आरम्भः ।। २.कार्यम् LJ. || Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy