________________
सवृत्तिके
धर्मबिन्दौ
८३
तृतीयोऽध्याय:
भवस्थिते: संसाररूपस्य प्रेक्षणम् अवलोकनम्, यथायौवनं नगनदीस्यदोपमं, शारदाम्बुदविलासि जीवितम् । स्वप्नलब्धधनविभ्रमं धनं स्थावरं किमपि नास्ति तत्त्वतः ॥१४०॥ विग्रहा गदभुजङ्गमालया:, सङ्गमा विगमदोषदूषिताः । सम्पदोऽपि विपदा कटाक्षिता, नास्ति किञ्चिदनुपद्रवं स्फुटम् ॥१४१॥ [श्रावका० १४।१-२] इत्यादीति ॥८॥
तदनु तन्नैर्गुण्यभावना ॥८९॥२२२॥ इति । तस्या भवस्थिते: नैर्गुण्यभावना नि:सारत्वचिन्तनम्, यथाइत: क्रोधो गृध्रः प्रकटयति पक्षं निजमितः श्रृगाली तृष्णेयं विवृतवदना धावति पुरः । इत: क्रूरः कामो विचरति पिशाचश्चिरमहो श्मशानं संसार: क इह पतित: स्थास्यति सुखम् ? ॥१४२॥ एतास्तावदसंशयं कुशदलप्रान्तोदबिन्दूपमा, लक्ष्म्यो बन्धुसमागमोऽपि न चिरस्थायी खलप्रीतिवत् । यच्चान्यत् किल किश्चिदस्ति निखिलं तच्छारदाम्भोधरच्छायावच्चलतां बिभर्ति यदत: स्वस्मै हितं चिन्त्यताम् ॥१४॥ इति ॥८९|| तथा
अपवर्गालोचनम् ॥९०॥२२३॥ इति । अपवर्गस्य मुक्ते: आलोचनं सर्वगुणमयत्वेनोपादेयतया परिभावनम्, यथाप्राप्ताः श्रियः सकलकामदुधास्ततः किम्? दत्तं पदं शिरसि विद्विषतां ततः किम्?। सम्पूरिताः प्रणयिनो विभवैस्ततः किम्? कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥१४४॥ [वैराग्यश०६७) तस्मादनन्तमजरं परमं प्रकाशम्, तच्चित्त ! चिन्तय किमेभिरसद्विकल्पैः ?
यस्यानुषङ्गिण इमे भुवनाधिपत्य॑-भोगादयः कृपणजन्तुमतां भवन्ति ॥१४५/ [वैराग्यश० ६९] ॥१०॥ तथा१.दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे ।। २. संमानिताः' इति मुद्रिते वैराग्यशतके ।। ३.“परमं विकासि, तद् ब्रह्म चिन्तय ... | ... कृपणलोकमता भवन्ति" इति मुद्रिते वैराग्यशतके ॥ ४ पत्ययोगादय: L. ||
Jain E
cation International
Far Private
Personal Use Only
www.jainelibrary.org