SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ८२ तृतीयोऽध्यायः यथोचितं यथासामर्थ्यं तत्प्रतिपत्ति: सान्ध्यविधिप्रतिपत्तिरिति ॥८२।। कीदृशीत्याह पूजापुरस्सरं चैत्यादिवन्दनम् ॥८॥२१६।। इति । तत्कालोचितपूजापूर्व चैत्यवन्दनं गृहचैत्य-चैत्यभवनयोः, आदिशब्दाद् यतिवन्दनं माता-पितृवन्दनं च ॥८३॥ तथा साधुविश्रामणक्रिया ॥८४॥२१७॥ इति । साधूनां निर्वाणाराधनयोगसाधनप्रवृत्तानां पुरुषविशेषाणांस्वाध्याय-ध्यानाद्यनुष्ठाननिष्ठोपहितश्रमाणां तथाविधविश्रामकसाध्वभावे विश्रामणक्रिया, विश्राम्यतां विश्रामं लभमानानां करणं विश्रामणा , सा चासौ क्रिया चेति समासः ॥८४ तथा योगाभ्यासः ॥८५॥२१८॥इति। योगस्य सालम्बन-निरालम्बनभेदभिन्नस्याभ्यास: पुन: पुनरनुशीलनम्, उक्तं च सालम्बनो निरालम्बनश्च योग: परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः ॥१३८॥ [षोड०१४।१] तत्तत्त्वग इति निर्वृतजिनस्वरूपप्रतिबद्ध इति ॥८५।। तथा नमस्कारादिचिन्तनम् ।।८६॥२१९॥ इति । नमस्कारस्य, आदिशब्दात्तदन्यस्वाध्यायस्य च चिन्तनं भावनम् ॥८६।। तथा प्रशस्तभावक्रिया ॥८७॥२२०।। इति । तथा तथा क्रोधादिदोषविपाकपर्यालोचनेन प्रशस्तस्य प्रशंसनीयस्य भावस्य अन्त:करणरूपस्य क्रिया करणम्, अन्यथा महादोषभावात्, यदुच्यतेचित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥१३९॥ [हा०अष्टके २४।७] इति ।।८७|| तथा भवस्थितिप्रेक्षणम् ।।८८॥२२१॥ इति । १:धनप्रवृत्तानां पुरुषाणां J विना ।। २.तत्तत्त्वग मु० ॥ ३. जिनरूप.।। JanEducation international For Private & Personal use only
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy