SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ तृतीयोऽध्यायः तदन्वेव प्रत्याख्यानक्रिया ७६।२०९।। इति । तदन्वेव भोजनानन्तरमेव प्रत्याख्यानक्रिया द्विविधाद्याहारसंवरणरूपा ॥७६॥ तथा शरीरस्थितौ प्रयत्नः ॥७७॥२१०।। इति । शरीरस्थितौ उचिताभ्या-संवाहन-स्नानादिलक्षणायां यत्न: आदर:, तथा च पठ्यतेधर्मार्थकाममोक्षाणां शरीरं कारणं यतः । ततो यत्नेन तद्रक्ष्यं यथोक्तैरनुवर्तनैः ॥१३६॥ [ ] इति ॥१६६।। तथा तदुत्तरकार्यचिन्ता ॥७८२११।। इति । तस्याः शरीरस्थितेरुत्तराणि उत्तरकालभावीनि यानि कार्याणि व्यवहारकरणादीनि तेषां चिन्ता तप्तिरूपा कार्या इति ॥७८|| तथा कुशलभावनायां प्रबन्धः ॥७९॥२१२॥ इति । कुशलभावनायाम् सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चित् पापमाचरेत् ॥१३७॥ [ ] इत्यादिशुभचिन्तारूपायां प्रबन्धः प्रकर्षवृत्तिः ॥७९|तथा शिष्टचरितश्रवणम् ॥८॥२१३।। इति । शिष्टचरितानां 'शिष्टचरितप्रशंसा' इति प्रथमाध्यायसूत्रोक्तलक्षणानां श्रवणं निरन्तरमाकर्णनम्, तच्छ्रवणे हि तद्गताभिलाषभावान्न कदाचिद् लब्धगुणहानिः सम्पद्यत इति ॥८०॥ तथा सान्ध्यविधिपालना ॥८११।२१४।। इति । सान्ध्यस्य सन्ध्याकालभवस्य विधे: अनुष्ठानविशेषस्य दिनाष्टमभागभोजनव्यवहारसङ्कोचादिलक्षणस्य पालना अनुसेवनमिति ॥८१।। एनामेव विशेषत आह यथोचितं तत्प्रतिपत्तिः ॥८॥२१५।। इति । १.प्रबन्ध इति प्रकर्षवृत्ति: J॥ २ दृश्यतां १।१४॥ ३.यथोचिततत्प्र' J.L. || Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy