________________
सवृत्तिके
धर्मबिन्दौ
८०
Jain Education International
दुःखितेषु भवान्तरोपात्तपापपाको पहितातितीव्रक्लेशावेशेषु देहिष्वनुकम्पा कृपा कार्या यथाशक्ति स्वसामर्थ्यानुरूपम्, द्रव्यतः तथाविधग्रासादेः सकाशात्, भावतो भीषणभवभ्रमणवैराग्यसम्पादनादिरूपात्, चः समुच्चये, दुःखितानुकम्पा हि तदुपकारत्वेन धर्मैकहेतुः । यथोक्तम्
अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामत्र ॥ १३२॥ [ ] इति ॥७१॥ तथा
लोकापवादभीरुता ॥ ७२ ॥ २०५ ॥ इति ।
लोकापवादात् सर्वजनापरागलक्षणात् भीरुता अत्यन्तभीतभावः, किमुक्तं भवति ? निपुणमत्या विचिन्त्य तथा तथोचितवृत्तिप्रधानतया सततमेव तृतीयोऽध्यायः प्रवर्तितव्यं यथा यथा सकलसमीहितसिद्धिविधायि जनप्रियत्वमुज्जृम्भते, न पुनः कथञ्चिदपि जनापवादः, तस्य मरणान्निर्विशिष्यमाणत्वात्, तथा चावाचिवचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् । मरणं तु कालपरिणतिरियं च जगतोऽपि सामान्या ॥ १३३॥ [ ] इति ॥७२॥ तथागुरुलाघवापेक्षणम् ॥७३॥। २०६ ।। इति ।
सर्वप्रयोजनेषु धर्मार्थकामरूपेषु तत्तत्कालादिबलालोचनेन प्रारब्धुमिष्टेषु प्रथमत एव मतिमता गुरोः भूयसो गुणलाभपक्षस्य दोषलाभपक्षस्य च लघोश्च तदितररूपस्य भावो गुरुलाघवं तस्य निपुणतया अपेक्षणम् आलोचनं कार्यमिति । ततः किमित्याह
बहुगुणे प्रवृत्तिः ॥ ७४ ॥ २०७ ॥ इति ।
प्रायेण हि प्रयोजनानि गुण-दोषलाभमिश्राणि, ततो बहुगुणे प्रयोजने प्रवृत्ति: व्यापारः, तथा चार्षम् - अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणं । सव्वासु पडिसेवासु, एयं अट्ठपयं विऊ ॥१३४॥ [ चैत्यादिपूजापुरःसरं भोजनम् ।।७५।। २०८ ।। इति ।
प्राप्ते भोजनकाले चैत्यानाम् अर्हद्विम्बलक्षणानाम् आदिशब्दात् साधु-साधर्मिकाणां च पूजा पूष्प-धूपादिभिरन्न - पानप्रदानादिभिश्चोपचरणं सा पुरःसरा यत्र तच्चैत्यादिपूजापुरःसरं भोजनम् अन्नोपजीवनम्, यतोऽन्यत्रापि पठ्यते
जिण ओचियाणं परियणसंभालणा उचियकिच्चं । ठाणुववेसो य तहा पच्चक्खाणस्स संभरणं ॥ १३५ ॥ [
]॥७५॥ तथा
१. पहा ]. ॥। २. अल्पेन बहु एषेत एतत् पण्डितलक्षणम् । सर्वासु प्रतिसेवासु एतदर्थपदं विदुः । ३. जिनपूजोचितदानं परिजनस्मरणमुचितकृत्यम् । स्थानोपवेशश्च तथा प्रत्याख्यानस्य संस्मरणम् ॥
For Private & Personal Use Only
] ॥७४॥ तथा
८०
www.jainelibrary.org