SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ तथा ७९ तृतीयोऽध्यायः शासनोन्नतिकरणम् ॥६७॥२००।। इति । शासनस्य निखिलहेयोपादेयभावाविर्भावेन भास्करकल्पस्य जिननिरूपितवचनरूपस्य उन्नति: उच्चैर्भावस्तस्याः करणं सम्यग्न्यायव्यवहरणयथोचितजनविनयकरण-दीनानाथाभ्युद्धरण-सुविहितयतिपुरस्करण-परिशुद्धशीलपालन-जिनभवनविधापन- यात्रास्नात्रादिनानाविधोत्सवसम्पादनादिभिरुपायैः, तस्यातिमहागुणत्वादिति । पठ्यते चकर्तव्या चोन्नतिः सत्यां शक्ताविह नियोगतः । अवन्ध्यं कारणं ह्येषा तीर्थकृनामकर्मणः ॥१३०॥ [हा अष्टके २३।८] इति ॥६७॥ तथा विभवोचितं विधिना क्षेत्रदानम् ॥६८॥२०१॥ इति । विभवोचितं स्वविभवानुसारेण विधिना अनन्तरमेव निर्देक्ष्यमाणेन क्षेत्रेभ्यो निर्देक्ष्यमाणेभ्य एव दानं अन्न-पानौषध-वस्त्र-पात्राधुचितवस्तुवितरणम् ॥६८।। विधि क्षेत्रं च स्वयमेव निर्दिशन्नाह सत्कारादिर्विधिनिःसङ्गता च ॥६९।२०२।। इति । सत्करणं सत्कार: अभ्युत्थाना-ऽऽसनप्रदान-वन्दनरूपो विनयः, स आदिर्यस्य देशकालाराधन-विशुद्धश्रद्धाविष्करण-दानक्रमानुवर्तनादेः कुशलानुष्ठानविशेषस्य स तथा, किमित्याह- विधिर्वर्तते, निःसङ्गता ऐहिक-पारलौकिकफलाभिलाषविकलतया सकलक्लेशलेशाकलङ्कितमुक्तिमात्राभिसन्धिता, चकार: समुच्चय।।६९।। वीतरागधर्मसाधवः क्षेत्रम् ॥७॥२०३।। इति । वीतरागस्य जिनस्य धर्मः उक्तनिरुक्तः, तत्प्रधाना: साधवो वीतरागधर्मसाधवः क्षेत्रं दानाहँ पात्रमिति, तस्य च विशेषलक्षणमिदम्क्षान्तो दान्तो मुक्तो जितेन्द्रियः सत्यवागभयदाता । प्रोक्तस्त्रिदण्डविरतो विधिग्रहीता भवति पात्रम् ॥१३१॥ [ ॥७०॥ तथा दुःखितेष्वनुकम्पा यथाशक्ति द्रव्यतो भावतश्च ॥७१।।२०४।। इति । १. प्रधानं कारणम्' इति अष्टके पाठः ।। २:भिसम्बन्धिता J.॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy