SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ७८ ग्लानादिकार्याभियोगः ॥६१॥१९४॥ इति । ग्लानादीनां ग्लान-बाल-वृद्धा-ऽऽगमग्रहणोद्यत-प्राघूर्णकादिलक्षणानां साधु-साधर्मिकाणां यानि कर्माणि प्रतिजागरणौषधाऽन्न-पान-वस्त्रप्रदान-पुस्तकादिसमर्पणोपाश्रयनिरूपणादिलक्षणानि, तेष्वभियोगो दत्तावधानता विधेयेति ॥६१।। तथा कृताकृतप्रत्युपेक्षा ॥६२॥१९५।। इति । कृतानामकृतानांच चैत्यकार्याणां ग्लानादिकार्याणां च प्रत्युपेक्षा निपुणाभोगविलोचनव्यापारेण गवेषणम्, तत्र कृतेषु करणाभावादकृतकरणायोद्यमो तृतीयोऽध्यायः विधेयः, अन्यथा निष्फलशक्तिक्षयप्रसङ्गादिति ॥६२।। ततश्च उचितवेलयाऽऽगमनम् ॥६||१९६।। इति। उचितवेलया हट्टव्यवहार-राजसेवादिप्रस्तावलक्षणया आगमनं चैत्यभवनाद् गुरुसमीपाद् वा गृहादाविति ॥६३|| ततो धर्मप्रधानो व्यवहारः ॥६४||१९७।। इति । कुलक्रमागतमित्या दिसूत्रोक्तानुष्ठानरूपो व्यवहारः कार्य: ॥६४|| तथा द्रव्ये सन्तोषपरता ॥६५॥१९८।। इति । द्रव्ये धन-धान्यादौ विषये सन्तोषप्रधानता, परिमितेनैव निर्वाहमातहेतुना द्रव्येण सन्तोषवता धार्मिकेण भवितव्यमित्यर्थः, असन्तोषस्यासुखहेतुत्वात् । यदुच्यते - अत्युष्णात् सघृतादन्नादच्छिद्रात सितवाससः। अपरप्रेष्यभावाच्च शेषमिच्छन् पतत्यधः ॥१२८॥ [ ] इति। तथासन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ?॥१२९॥ [ ] इति ॥६५॥ तथा धर्मे धनबुद्धिः ॥६६॥१९९।। इति । धर्मे श्रुत-चारित्रात्मके सकलाभिलषिताविकलसिद्धिमूले धनबुद्धिः ‘मतिमतां धर्म एव धनम्' इति परिणामरूपा निरन्तरं निवेशनीयेति ॥६६|| १ दृश्यतां १३३ पृ. ५ ॥ २.धार्मिकेणैव भवि L. || ७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy