SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ७७ Jain Education International तदनुष्ठानफलत्वात्, यथोक्तम् नार्या यथाऽन्यसक्तायास्तत्र भावे सदा स्थिते: (ते) । तद्योग: पापबन्धाय तथा धर्मेऽपि दृश्यता म् ॥ १२४॥ [योगबिन्दौ २०४] तद्योग इति अन्यप्रसक्तनारीव्यापारः स्वकुटुम्बपरिपालनादिरूप इति ॥ ५६ ॥ तथा तत्कर्त्तृषु प्रशंसोपचारौ ॥ ५७ ॥ १९०॥ इति । तत्कर्त्तृषु आत्मानमपेक्ष्याशक्यानुष्ठानविधायिषु पुरुषसिंहेषु प्रशंसोपचारौ, प्रशंसा मुहुर्मुहुर्गुणगणोत्कीर्त्तनरूपा, उपचारश्च तदुचितान्नपानवसनादिना तृतीयोऽध्यायः साहाय्यकरणमिति ॥ ५७॥ तथा निपुणभावचिन्तनम् ||५८ ।। १९१ ।। इति । निपुणानाम् अतिसूक्ष्मबुद्धिगम्यानां भावानां पदार्थानामुत्पाद-व्यय- ध्रौव्यस्वभावानां बन्ध-मोक्षादीनां वाऽनुप्रेक्षणम्, यथाअनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥ १२५ ॥ [ ] तथा स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रार्गद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥ १२६॥ [प्रशम.५५ ] इत्यादीति ॥ ५८ ॥ तथा गुरुसमीपे प्रश्नः ॥५९॥१९२॥ इति । यदा पुनर्निपुणं चिन्त्यमानोऽपि कश्चिद्भावोऽतिगम्भीरतया स्वयमेव निश्चेतुं न पार्यते तदा गुरोः संविग्नगीतार्थस्य वृत्तस्थस्य च समीपे प्रश्नो विशुद्धविनयविधिपूर्वकं पर्यनुयोगः कार्यः, यथा 'भगवन् ! नावबुद्धोऽयमर्थोऽस्माभिः कृतयत्नैरपि, ततोऽस्मान् बोधयितुमर्हन्ति भगवन्तः' इति ॥५९॥ तथा निर्णयावधारणम् ||६० ।।१९३।। इति । निर्णयस्य निश्चयकारिणो वचनस्य गुरूणा निरूपितस्य अवधारणं दत्तावधानतया ग्रहणम् । भणितं चान्यत्रापि - सम्मं वियारियव्वं अट्ठपयं भावणापहाणेणं। विसए य ठावियव्वं बहुसुयगुरुणो सयासा ओ ॥१२७॥ [पञ्चव०८६५] त्ति । तथा १. द्वेषात् क्लिन्नस्य J ॥ २ विशुद्धविशुद्धविनयविधिपूर्वकं L || ३. बहुस्सयगुरुस्सयासाओ J.II For Private & Personal Use Only ७७ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy