________________
सवृत्तिके
धर्मबिन्दौ
७६
Jain Education International
चैत्यानाम् अर्हबिम्बानामन्येषामपि भावार्हत्प्रभृतीनां साधूनां च व्याख्यानाद्यर्थमागतानां वन्दनीयानां वन्दनम् अभिष्टवनं प्रणिपातदण्डकादिपाठक्रमेण द्वादशावर्त्तवन्दनादिना च प्रसिद्धरूपेणैवेति ॥५०॥ ततः
गुरुसमीपे प्रत्याख्यानाभिव्यक्तिः || ५१ || १८४ ।। इति तथाविधशुद्धसमाचारसाधुसमीपे प्रागेव गृहादौ गृहीतस्य प्रत्याख्यानस्य अभिव्यक्ति: गुरोः साक्षिभावसंपादनाय प्रत्युच्चारणम् ॥५१॥ ततो जिनवचनश्रवणे नियोगः || ५२|| १८५ ।। इति । ‘संप्राप्तसम्यग्दर्शनादिः प्रतिदिनं साधुजनात् सामाचारीं श्रृणोति' इति श्रावक इत्यन्वर्थसंपादनाय जिनवचनश्रवणे नियोगो नियमः कार्यइति
॥५२॥ ततः
सम्यक् तदर्थालोचनम् ।। ५३ ।। १८६ ।। इति ।
सम्यक् संदेह-विपर्यया-ऽनध्यवसायपरिहारेण तदर्थस्य वचनाभिधेयस्य पुनः पुनर्विमर्शनम्, अन्यथा वृथा श्रुतमचिन्तितम् [ वचनात् न कश्चिच्छ्रवणगुणः स्यादिति ॥ ५३ ॥ ततः -
] इति
आगमैकपरता ॥ ५४ ॥। १८७ ।। इति।
आगमो जिनसिद्धान्तः स एवैको न पुनरन्यः कश्चित् सर्वक्रियासु परः प्रधानो यस्य स तथा, तस्य भावः आगमैकपरता, सर्वक्रियास्वागममेवैकं पुरस्कृत्य प्रवृत्तिरिति भाव इति ॥५४॥ तत:
श्रुतशक्यपालनम् ||५५ ।। १८८ ।। इति ।
श्रुतस्य आगमादुपलब्धस्य शक्यस्य अनुष्ठातुं पार्यमाणस्य पालनम् अनुशीलनं सामायिक पौषधादेरिति ॥५४॥ तथाअशक्ये भावप्रतिबन्धः || ५६ || १८९ ।। इति ।
अशक्ये पालयितुमपार्यमाणे तथाविधशक्ति सामग्र्यभावात् साधुधर्माभ्यासादौ भावेन अन्तःकरणेन प्रतिबन्धः आत्मनि नियोजनम्, तस्यापि १.अभिस्तवनं J.। “उपसर्गात् सुग-सुव-सो-स्तु-स्तुभोऽटयप्यद्वित्वे || २|३|३९||” इति सिद्धहेमशब्दानुशासने ॥ २ तस्यापि सदनुष्ठान मु.।।
For Private & Personal Use Only
तृतीयोऽध्यायः
७६
www.jainelibrary.org