SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबन्दी ७५ Jain Education International सम्यगिति क्रियाविशेषणम्, ततः सम्यग् यथा भवति तथा मान-क्रोधा ऽनाभोगादिदोषपरिहारवशात् प्रत्याख्यानस्य मूलगुणगोचरस्योत्तरगुणगोचरस्य च क्रिया ग्रहणरूपा, परिमितसावद्यासेवनेऽपि अपरिमितपरिहारेण प्रत्याख्यानस्य महागुणत्वात्, यथोक्तम्परिमितमुपभुञ्जानो ह्यपरिमितमनन्तकं परिहरंश्च । प्राप्नोति परलोके ह्यपरिमितमनन्तकं सौख्यम् ॥ १२३॥ [ ] इति ॥ ४५ ॥ तथा यथोचितं चैत्यगृहगमनम् ।। ४६ ।। १७९।। इति । यथोचितं यथायोग्यं चैत्यगृहगमनं चैत्यगृहे जिनभवनलक्षणे अर्हद्विम्बवन्दनाय प्रत्याख्यानक्रियानन्तरमेव गमनमिति, इह द्विविध: श्रावको भवतिऋद्धिमांस्तदितरश्च, तत्रर्द्धिमान् राजादिरूपः, स सर्वस्वपरिवारसमुदायेन व्रजति, एवं हि तेन प्रवचनप्रभावना कृता भवति, तदितरोऽपि स्वकुटुम्बसंयोगेनैति, समुदायकृतानां कर्मणां भवान्तरे समुदायेनैवोपभोगभावात् ॥४६॥ तथा विधिनाऽनुप्रवेशः || ४७ ।। १८० ।। इति । विधिना विधानेन चैत्यगृहे प्रवेशः कार्यः, अनुप्रवेशविधिश्चायम्- सच्चित्ताणं दव्वाणं विउस्सरणयाए १, अचित्ताणं दव्वाणं अविउस्सरणयाए २, एगसाडिएणं उत्तरासंगेणं ३, चक्खुफासे अंजलिपग्गहेणं ४, मणसो एगत्तीकरणेणं ५ [ भगवतीसूत्रे २/५, ज्ञाताधर्मकथा प्रथमाध्ययने पृ. ४२, पं. १७ ] ति ॥४७॥ तत्र च - उचितोपचारकरणम् ॥४८॥ १८९॥ इति । उचितस्य अर्हबिम्बानां योग्यस्य उपचारस्य पुष्प-धूपाद्यभ्यर्चनलक्षणस्य करणं विधानम् ||४८|| ततो भावत: स्तवपाठ: ।। ४९ ।। १८२ ।। इति । दरिद्रनिधिलाभादिसंतोषोपमानोपमेयाद् भावतो भावात् संतोषलक्षणात् स्तवानां गम्मीराभिधेयानां सद्भूतगुणोद्भावनाप्रधानानां नमस्कारस्तोत्रलक्षणानां पाठः समुचितेन ध्वनिना समुच्चारणम् ||४९॥ ततः चैत्य-साधुवन्दनम् ॥५०॥१८३॥ इति । १. प्राप्नोति च मु. ॥। २. नैति मु.।। For Private & Personal Use Only तृतीयोऽध्यायः ७५ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy