SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ७४ Jain Education International कश्चित् तथाविधदर्शनमोहोदयाद्धर्माच्च्यवते ततस्तं स्थिरीकरोति, स्वयं वा प्रच्यवमानः तैः स्थिरीक्रियते, पठ्यते चयद्यपि निर्गतभावस्तथाप्यसौ रक्ष्यते सद्भिरन्यैः । वेणुर्विलूनमूलोऽपि वंशगहने महीं नैति ॥११८॥ [ ]||४०|| तथा वात्सल्यमेतेषु ||४१।।१७४।। इति । वात्सल्यम् अन्न-पान-ताम्बूलादिप्रदान ग्लानावस्थाप्रतिजागरणादिना सत्करणं एतेषु साधर्मिकेषु कार्यम्, तस्य प्रवचनसारत्वात्, उच्यते चजिनशासनस्य सारो जीवदया निग्रहः कषायाणाम् । साधर्मिकवात्सल्यं भक्तिश्च तथा जिनेन्द्राणाम्॥ ११९ ॥ [ ] तथाधर्मचिन्तया स्वपनम् ||४२ || १७५ ।। इति । ] इत्यादि शुभभावनारूपया धर्मचिन्तया धन्यास्ते वन्दनीयास्ते तैस्त्रैलोक्यं पवित्रितम्। यैरेष भुवनक्लेशी काममल्लो विनिर्जितः ॥ १२० ॥ [ स्वपनं निद्राङ्गीकारः, शुभभावनासुप्तो हि तावन्तं कालमवस्थितशुभपरिणाम एव लभ्यत इति ॥४२॥ तथानमस्कारेणावबोधः ||४३|| १७६ ।। इति नमस्कारेण सकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्ठिभिरधिष्ठितेन नमो अरहंताणमित्यादिप्रतीतरूपेण अवबोघो निद्रापरिहारः, परमेष्ठिनमस्कारस्य महागुणत्वात्, पठ्यते च ] इति । तथा एष पञ्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥ १२१ ॥ [ प्रयत्नकृतावश्यकस्य विधिना चैत्यादिवन्दनम् ||४४|| १७७।। इति । प्रयत्नेन प्रयत्नवता कृतान्यावश्यकानि मूत्रपुरीषोत्सर्गा-मप्रक्षालन- शुद्धवस्त्रग्रहणादीनि येन स तथा तस्य विधिना पुष्पादिपूजासंपादनमुद्रान्यसनादिना प्रसिद्धेन चैत्यवन्दनं प्रसिद्धरूपमेव, आदिशब्दान्मातापित्रादिगुरुवन्दनं च यथोक्तम् ] इत्यादीति ॥४४॥ तथा चैत्यवन्दनतः सम्यक् शुभो भावः प्रजायते । तस्मात् कर्मक्षयः सर्वं ततः कल्याणमश्नुते ॥ १२२॥ [ सम्यक् प्रत्याख्यानक्रिया || ४५ || १७८ || इति । १. उक्तं च- चैत्यवन्दनतः .......मश्नुते ॥ [ ] इत्यादि" इति ललितविस्तरायाम् ॥ For Private & Personal Use Only तृतीयोऽध्यायः ७४ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy