________________
सवृत्तिके धर्मबिन्दौ
७३
क्लिष्टस्य सम्यक्त्वादिप्रतिपत्तिकालोत्पन्नशुद्धिगुणादपि सर्वथाऽव्यवच्छिन्नानुबन्धस्य कर्मणो मिथ्यात्वादेरुदयाद् विपाकात् सकाशादतीचारा: शङ्कादयो वध-बन्धादयश्च संपद्यन्ते, इदमुक्तं भवति- यदा तथाभव्यत्वपरिशुद्धिवशादत्यन्तमननुबन्धीभूतेषु मिथ्यात्वादिषु सम्यक्त्वादि प्रतिपद्यते तदाऽतिचाराणामसंभव एव, अन्यथा प्रतिपत्तौ तु स्युरप्यतिचारा इति ॥३६॥ तर्हि कथमेषां निवारणमित्याशङ्क्याह
विहितानुष्ठानवीर्यतस्तजयः ॥३७॥१७०।। इति । विहितानुष्ठानं प्रतिपत्रसम्यक्त्वादेर्नित्यानुस्मरणादिलक्षणं तदेव वीर्यं जीवसामर्थ्य तस्मात्, किमित्याह- तजयः, तेषाम् अतिचाराणां जयः
या तृतीयोऽध्यायः अभिभवः संपद्यते, यतो विहितानुष्ठानं सर्वापराधव्याधिविरेचनौषधं महदिति ॥३७॥ एतद्विषयमेवोपदेशमाह
अत एव तस्मिन् यत्नः ॥३८॥१७१॥ इति । अत एव विहितानुष्ठानवीर्यस्यातिचारजयहेतुत्वादेव तस्मिन् विहितानुष्ठाने यत्न: सर्वोपाधिशुद्ध उद्यमः कार्य इति ॥ अन्यत्राप्युक्तम्तम्हा निच्चसईए बहुमाणेणं च अहिगयगुणमि । पडिवक्खदुगुंछाए परिणइआलोयणेणं च ॥११५।। तित्थंकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए य एत्थ सया होइ जइयव्वं ॥११६॥ एवमसंतो वि इमो जायइ जाओ य ण पडइ क्या वि । ता एत्थं बुद्धिमया अपमाओ होइ का यव्चो ॥११७॥ पञ्चा. ११३६-३७-३८] ति।। साम्प्रतं सम्यक्त्वादिगुणेष्वलब्धलाभाय लब्धपरिपालनाय च विशेषतः शिक्षामाह
सामान्यचर्याऽस्य ॥३९॥॥१७२।। इति । सामान्या प्रतिपन्नसम्यक्त्वादिगुणानां सर्वेषां प्राणिनां साधारणा सा चासौ चर्या च चेष्टा सामान्यचर्या, अस्य प्रतिपन्नविशेषगृहस्थधर्मस्य जन्तोरिति ॥३९॥ कीदृशीत्याह
समानधार्मिकमध्ये वासः ॥४०॥१७३।। इति । समाना: तुल्यसमाचारतया सदृशाः उपलक्षणत्वादधिकाश्च ते धार्मिकाश्चेति समासः, तेषां मध्ये वास: अवस्थानम्, तत्र चायं गुण:- यदि १:दतिचारा: J.॥ २.कइयावि L.II
Jain Education International
For Privale & Personal use only
www.jainelibrary.org