________________
सवृत्तिके धर्मबिन्दौ
७२
तृतीयोऽध्यायः
पीठ-फलकादेवतीचारौ स्यातामेताविवेति १-२॥ इह संस्तारोपक्रमणम् इति संस्तारकशब्दः शय्योपलक्षणम्, तत्र शय्या शयनं सर्वाङ्गीणं वसतिर्वा संस्तारक: अर्द्धतृतीयहस्तपरिमाणः, ततः संस्तारकस्य प्रस्तावादप्रत्युपेक्षितस्याप्रमार्जितस्य चोपक्रमः उपभोगः अतीचारोऽयं तृतीय: ३। अनादरस्मृत्यनुपस्थाने पुनी चतुर्थ-पञ्चमावतीचारौ४-५ सामायिकातिचाराविव भावनीयाविति। इह संस्तारोपक्रमे इयं वृद्धसमाचारी-कृतपौषधोपवासो नाप्रत्युपेक्षितां शय्यामारोहति, संस्तारकं वा पोषधशालां वा सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागतः पुनरपि संस्तारकं प्रत्युपेक्षतेऽन्यथाऽतिचार: स्यात्, एवं पीठादिष्वपि विभाषेति ॥३३॥ अथ चतुर्थस्य
सचित्तनिक्षेप-पिधान-परव्यपदेश-मात्सर्य-कालातिक्रमा:॥३४॥१६७।। इति। सचित्तनिक्षेपपिधाने च परव्यपदेशश्च मात्सर्यं च कालातिक्रमश्चेति समासः, तत्र सचित्ते सचेतने पृथिव्यादौ निक्षेपः साधुदेयभक्तादेः स्थापन सचित्तनिक्षेपः, तथा सचित्तेनैव बीजपूरादिना पिधानं साधुदेयभक्तादेरेव स्थगनं सचित्तपिधानम् । तथा परस्य आत्मव्यतिरिक्तस्य व्यपदेश: परकीयमिदमन्नादिकमित्येवमदित्सावत: साधुसमक्ष भणनं परव्यपदेशः, तथा मत्सरः असहनं साधुभिर्याचितस्य कोपकरणम्, तेन रङ्केण याचितेन दत्तमहं तु किं ततोऽपि हीन इत्यादिविकल्पो वा, सोऽस्यास्तीति मत्सरी, तद्भावो मात्सर्यम्, तथा कालस्य साधूचितभिक्षासमयस्यातिक्रमः अदित्सयाऽनागतभोजन-पश्चाद्भोजनद्वारेणोल्लङ्घनं कालातिक्रमोऽतिचार इति । भावना पुनरेवम्- यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदाऽतिचारोऽन्यदा तु भङ्ग इति ॥३४॥ एवमणुव्रत-गुणव्रत-शिक्षापदानि तदतिचारांश्चाभिधाय प्रस्तुते योजयन्नाह
एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्मः ॥३५॥१६८।। इति । एतै: अतिचारै रहितानामणुव्रतादीनामुपलक्षणत्वात् सम्यक्त्वस्य च पालनम्, किमित्याह- विशेषतो गृहस्थधर्मो भवति यः शास्त्रादौ प्राक् सूचित आसीदिति ॥३५|| आह - उक्तविधिना प्रतिपन्नेषु सम्यक्त्वा-ऽणुव्रतादिष्वतिचाराणामसंभव एव, तत्कथमुक्तमेतद्रहिताणुव्रतादिपालनमित्याशङ्क्याह
क्लिष्टकर्मोदयादतीचारा: ॥३६॥१६९।। इति । १.व्यपदेशः परव्यपदेशः परकीय K.॥ २ इतः परं त्रयोदश पत्राणि K मध्ये न सन्ति ।
For Private Personal use only
www.jainelibrary.org
Jain Education International