SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबन्दौ ७० योगदुष्प्रणिधाना - ऽनादर - स्मृत्यनुपस्थापनानि ॥ ३१ ॥ १६४ ।। इति । योगदुष्प्रणिधानानि च अनादरश्च स्मृत्यनुपस्थानं चेति समासः । तत्र योगाः मनो-वचन-कायाः, तेषां दुष्प्रणिधानानि सावद्ये प्रवर्त्तलक्षण योगदुष्प्रणिधानानि, एते त्रयोऽतिचाराः, अनादरः पुनः प्रबलप्रमादादिदोषाद् यथाकथञ्चित् करणं कृत्वा वाऽकृतसामायिककार्यस्यैव तत्क्षणमेव पारणमिति, स्मृत्यनुपस्थापनं पुनः स्मृतेः सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमाददोषादनुपस्थापनम् अनवतारणम्, एतदुक्तं भवति‘कदा मया सामायिकं कर्त्तव्यम्, कृतं मया सामायिकं न वा' इत्येवंरूपस्य स्मरणस्य भ्रंश इति । ननु मनोदुष्प्रणिधानादिषु सामायिकस्य निरर्थकत्वादभाव तृतीयोऽध्यायः एव प्रतिपादितो भवति, अतिचारश्च मालिन्यरूपो भवतीति कथं सामायिकाभावे ? अतो भङ्गा एवैते नातिचाराः, सत्यम्, किन्त्वनाभोगतोऽतिचारत्वमिति । ननु द्विविधं त्रिविधेन सावद्यप्रत्याख्यानं सामायिकम्, तत्र च मनोदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव तद्भङ्गजनितं प्रायश्चित्तं च स्यात्, मनोदुष्प्रणिधानं च दुष्परिहार्यम्, मनसोऽनवस्थितत्वाद्, अतः सामायिकप्रतिपत्तेः सकाशात् तदप्रतिपत्तिरेव श्रेयसीति, नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम्, तत्र मनसा सावद्यं न करोमीत्यादीनि षट् प्रत्याख्यानानि इत्यन्यतरभङ्गेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभावः, मिथ्यादुष्कृतेन मनोदुष्प्रणिधनमात्रशुद्धेश्च, सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतत्वात्, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, यदाह — बीओ उ असमिओ मि त्ति कीस सहसा अगुत्तो वा [आव०नि०१४३९] द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शुद्धयतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति ।किञ्च, सातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति सूरयः । यदाह- अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः [ षोडशक० १३/१३] ॥३१॥ अथ द्वितीयस्य आनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात - पुद्गलक्षेपाः ||३२|| १६५ ।। इति । आनयनं च प्रेष्यश्च आनयनप्रेष्यौ, तयोः प्रयोगावानयन-प्रेष्यप्रयोगौ, तथा शब्द-रूपयोरनुपातौ शब्द-रूपानुपातौ, आनयन-प्रेष्यप्रयोगौ च शब्द-रूपानुपातौ च पुद्गलक्षेपश्चेति समासः, तत्रानयने विवक्षितक्षेत्राद् बहिर्वर्त्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रप्रापणे प्रयोगः स्वयं गमने १. धानशुद्धेश्च J. विना । दृश्यतां पञ्चाशकवृत्तौ १|२६|| २. यदाह नास्ति J.I Jain Education International For Private & Personal Use Only ७० www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy