SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः सवृत्तिके | एवैतेऽत: खरकर्मादिवतिना परिहार्याः, यदा पुनरेतेष्वेवानाभोगादिना प्रवर्तते तदा खरकर्मव्रतातिचारा भवन्ति, यदा त्वाकुट्ट्या तदा भङ्गा एवेति ॥२९॥ धर्मबिन्दौ अथ तृतीयस्य कन्दर्प-कौत्कुच्य-मौखर्या-उसमीक्ष्याधिकरणोपभोगाधिकत्वानि॥३०॥१६३।। इति। ६९ कन्दर्पश्च कौत्कुच्यं च मौखय चासमीक्ष्याधिकरणं चोपभोगाधिकत्वं चेति समासः, तत्र कन्दर्प: कामः, तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प एव, मोहोद्दीपकं वाक्कर्मेति भावः, इह च सामाचारी-श्रावकस्याट्टहासो न कल्पते कर्तुम्, यदि नाम हसितव्यं तदेषदेवेति । तथा कुत्कुच: कुत्सितसंकोचनादिक्रियायुक्तः, तद्भाव: कौत्कुच्यम् अनेकप्रकारमुख-नयनादिविकारपूर्विका परिहासादिजनिता भण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र सामाचारी-तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्तुं स्थानेन वा स्थातुमिति । एतौ च कन्दर्पकौत्कुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, प्रमादरूपत्वात् तयोः २। तथा मुखमस्यास्तीति मुखरस्तद्भाव: कर्म वेति मौखर्य धाष्ट्यप्रायमसभ्यासत्यासंबद्धालापित्वम्, अयं च पापोपदेशव्रतस्यातिचारो, मौखर्ये सति पापोपदेशसंभवात् ३। तथा असमीक्ष्यैव तथाविधकार्यमपर्यालोच्यैव प्रवणतया यद् व्यवस्थापितमधिकरणं वास्युदूखल-शिलापुत्रक-गोधूमयन्त्रकादि तदसमीक्ष्याधिकरणम् । अत्र सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंम्रप्रदानव्रतस्यातीचार:४१ तथा उपभोगस्य उपलक्षणत्वाद् भोगस्य च उक्तनिर्वचनस्याधिकत्वम् अतिरिक्तता उपभोगाधिकत्वम्, इहापि सामाचारी-उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिक: स्याद, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे ? तत्र स्नाने तावद् गृहे एव स्नातव्यम्, नास्ति चेत्तत्र सामग्री तदा तैलामलकै: शिरो घर्षयित्वा तानि च सर्वाणि झाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभि: स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरतीति, अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य ५। अपध्यानाचरितव्रते त्वानाभोगादिना अपघ्याने प्रवृत्तिरतिचार इति स्वयमभ्यूह्यम्, कन्दर्पादय आकुट्ट्या क्रियमाणा भङ्गा एवावसेया इति ॥३०॥ अथ प्रथमशिक्षापदस्य१.वा कर्मेति JF.L.|| २.स्यादित्येवं J.॥ Jan Education ideatonal Far Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy