________________
सवृत्तिके धर्मबन्दी
4
६६
ग्रहीष्यामि' इति भावनयेति व्रतसापेक्षत्वादतिचार इति २।
तथा धनं गणिम-धरिम-मेय- परिच्छेद्यभेदाच्चतुर्विधम्, तत्र गणिमं पूगफलादि, धरिमं गुडादि, मेयं घृतादि, परिच्छेद्यं माणिक्यादि, धान्यं व्रीह्यादि, एतत्प्रमाणस्य बन्धनतोऽतिक्रमोऽतिचारो भवति, यथा हि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यङ्कारदानादिरूपेण वा स्वीकृत्य तद्गेह एव स्थापयतीत्यतोऽतिचारः ३ । तथा दासीदासप्रमाणातिक्रम इति, सर्वद्विपद- चतुष्पदोपलक्षणमेतत्, तत्र द्विपदं पुत्र-कलत्रदासी-दास-कर्मकर-शुक-सारिकादि, चतुष्पदं गवोष्ट्रादि, तेषां यत् परिमाणं तस्य गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराद्यवधिना द्विपद-चतुष्पदानां परिमाणं कृतम्, तेषां च संवत्सरमध्य एव प्रसवे अधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः ४ । तथा कुप्यम् आसन - शयनादिगृहोपस्करः, तस्य यन्मानं तस्य पर्यायान्तरारोपणेनातिक्रमोऽतिचारो भवति, यथा किल केनापि 'दश करोटकानि' इति कुप्यस्य परिमाणं कृतम्, ततस्तेषां कथञ्चिद् द्विगुणत्वे भूते सति व्रतभङ्गभयात् तेषां द्वयेन द्वयेन एकैकं महत्तरं कारयतः पर्यायान्तरकरणेन संख्यापूरणात् स्वाभाविकसंख्याबाधनाच्चातिचारः । अन्ये वाहुः तदर्थत्वेन विवक्षितकालावधेः परतोऽहमेतत् करोटकादि कुप्यं ग्रहीष्याम्यतो नान्यस्मै देयम्' इति पराप्रदेयतया व्यवस्थापयत इति ५ । यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेषः स्यादिति तद्विशेषोपदर्शनार्थं मीलन - वितरणादिना भावना दर्शितेति । यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन नवसङ्ख्यातिचारप्राप्तौ पञ्चसङ्घयत्वमुक्तं तत् सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात्, शिष्यहितत्वेन च प्राय: सर्वत्र मध्यमगतेर्विवक्षितत्वात् पञ्चकसङ्ख्ययैवातिचारपरिगणनम्, अतः क्षेत्रवास्त्वादिसङ्ख्ययाऽतिचाराणामगणनमुपपन्नमिति ||२७|| अथ प्रथमगुणव्रतस्य
ऊर्ध्वाधस्तिर्यग्व्यतिक्रम - क्षेत्रवृद्धि - स्मृत्यन्तर्धानानि ।। २८ ।। १६१ ।। इति ।
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमाश्च क्षेत्रवृद्धिश्च स्मृत्यन्तर्धानं चेति समासः, तत्र ऊर्ध्वाधस्तिर्यक्क्षेत्रव्यतिक्रमलक्षणास्त्रयोऽतीचाराः, एते च आनयने विवक्षितक्षेत्रात् परतः स्थितस्य वस्तुनः परहस्तेन स्वक्षेत्रप्रापणे, प्रेषणे वा ततः परेण, उभये वा आनयनप्रेषणलक्षणे सति संपद्यन्ते, अयं चानयनादावतिक्रमो १. व्रतसापेक्षत्वात् कथंचिद् विरतिबाधनाच्चातिचार: LII २. मध्यगते J ॥
For Private & Personal Use Only
Jain Education International
तृतीयोऽध्यायः
६६
www.jainelibrary.org