SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ६५ Jain Education International साऽपि संभवति, किं च यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं ददत्यपि गीतार्थाः, यथा आर्यसुहस्ती रङ्कस्य सर्वविरतिं दत्तवान् । इदं च परविवाहवर्जनं स्वापत्यव्यतिरिक्तेष्वेव न्याय्यम्, अन्यथाऽपरिणीता कन्या स्वच्छन्दचारिणी स्यात्, ततः शासनोपघातः स्याद्, विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं 'स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे सुतसङ्ख्यापूर्वौ वाऽपत्यान्तरोत्पत्तिपरिहारोपायत इति । अपरे त्वाहुः- परः अन्यो यो विवाहः, आत्मन एव विशिष्टसंतोषाभावात् योषिदन्तराणि प्रति विवाहान्तरकरणं तत् परविवाहकरणम्, अयं तृतीयोऽध्यायः च स्वदारसंतोषिण इति । स्त्रियास्तु स्वपुरुषसंतोष- परपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां सर्वेषां परपुरुषत्वात्, ततः परविवाहकरणा-ऽनङ्गक्रीडा-तीव्रकामाभिलाषाः स्वदारसंतोषिण इव स्वपुरुषविषये स्युः । द्वितीयस्तु यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुञ्जानाया अतिचारः । तृतीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयः, ब्रह्मचारिणस्त्वतिक्रमादिनाऽतिचार इति ||२६|| अथ पञ्चमाणुव्रतस्य क्षेत्रवास्तु - हिरण्यसुवर्ण - धनधान्य- दासीदास- कुप्यप्रमाणातिक्रमाः ।। २७।। १६०॥ इति ॥ क्षेत्र - वास्तुनोः हिरण्य - सुवर्णयोः धन-धान्ययोः दासी दासयोः कुप्यस्य च प्रमाणातिक्रमण इति समासः, तत्र क्षेत्रं सस्योत्पत्तिभूमिः, तच्च सेतु-केतूभयभेदात् त्रिविधम्, तत्र सेतुक्षेत्रम् अरघट्टादिसेक्यम्, केतुक्षेत्रं तु आकाशोदकनिष्पाद्यम्, उभयक्षेत्रं तु तदुभयनिष्पाद्यम् । वास्तु पुनरगारं ग्राम-नगरादि च, तत्रागारं त्रिविधम्- खातमुच्छ्रितं खातोच्छ्रितं च तत्र खातं भूमिगृहादि, उच्छ्रितम् उच्छ्रयेण कृतम्, उभयं भूमिगृहस्योपरि प्रासादः, एतयोश्च क्षेत्र-वास्तुनोः प्रमाणस्य क्षेत्रान्तरादिमीलनेन अतिक्रमोऽतिचारो भवति, तथाहि — किलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतर दि सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्याद्यपनयनेन तत् तत्र योज॑यतो व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार इति १। तथा हिरण्यं रजतम्, सुवर्णं हेम, एतत् परिमाणस्य अन्यवितरणेनातिक्रमोऽतिचारो भवति, यथा नाप चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितम्, तत्र च तेन तुष्टराजादेः सकाशात् तदधिकं तल्लब्धम्, तच्चान्यस्मै व्रतभङ्गभयात् प्रददाति 'पूर्णेऽवधौ १. पृ० ६३ पं०८ ।। २. वृत्त्या K. J.I " वाटे प्राचीनावेष्टकौ वृतिः" इति अभिधानचिन्तामणी श्लो० ९८२ । ३. प्रयोजयतो K. J. II For Private & Personal Use Only ६५ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy