SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः सवृत्तिके | तयैवापरदारत्वादिति ।। धर्मबिन्दौ __ अपरे त्वाहुः- इत्वरपरिगृहीतागमनं स्वदारसंतोषवतोऽतिचारः, अपरिगृहीतागमनं तु परदारवर्जिनः, तत्र प्रथमभावना पूर्ववत्, द्वितीयभावना त्वेवम्अपरिगृहीता नाम वेश्या, तां यदा गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसंभवात् कथञ्चित् परदारत्वाच्च भङ्गो वेश्यात्वाच्चाभङ्गो भङ्गाभग इत्यतिचारः। अन्ये पुनरन्यथा प्राहुः - परदारवज्जिणो पंच होन्ति तिन्नि उ सदारसंतुढे । इत्थीए तिन्नि पंच व भंगविर्गप्पेहिं नायव्वं ॥११॥ [सम्बोधप्रकरणे ७४१] इह भावना-परेण इत्वरकालं या परिगृहीता वेश्या तद्गमनमतिचारः परदारवर्जिनः, कथञ्चित् तस्याः परदारत्वात्, तथा अपरिगृहीतायाः अनाथकुलाङ्गनाया एव यद् गमनं तदपि तस्यैवातिचारः, लोके परदारत्वेन तस्या रूढत्वात्, तत्कामुककल्पनया च परस्य भत्रदिरभावेनापरदारत्वात् । शेषास्तूभयोरपि स्युः, तथाहि- स्वदारसंतोषिण: स्वकलत्रेऽपि तदितरस्य तु वेश्या-स्वकलत्रयोरपि यदनगरतं तत् साक्षादप्रत्याख्यातमपि न विधेयम्, यतोऽसावत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनाया: संभवादनगरतमर्थतः प्रत्याख्यातमेव, एवं परविवाह-तीव्रकामाभिलाषावपीति, अत: कथञ्चित् प्रत्याख्यातेषु प्रवृत्तेरतीचारता तेषाम् । अन्ये त्वनङ्गक्रीडामेवं भावयन्ति- स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत् परिहरन् स्वदारसंतोषी वेश्यादौ परदारवर्जकस्तु परदारेष्वालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति । तथा स्वदारसंतोषवता स्वकलत्राद् इतरेण च स्वकलत्र-वेश्याभ्यामन्यत्र मनो-वाक्-कार्यमैथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणत: तत्कारणमर्थतोऽनुष्ठितं भवति, तव्रती च मन्यते 'विवाह एवायं मया विधीयते, न मैथुनम्' इति ततो व्रतसापेक्षत्वादतिचार इति । ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिा ?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरणुव्रतानि न भवन्त्येवेति कथंसा परविवाहकरणलक्षणातिचारकारणमिति, सत्यम्, केवलमव्युत्पन्नावस्थायां १.परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदारसन्तुष्टे । स्त्रिया: त्रयः पञ्च वा भाविकल्पैः ज्ञातव्यम् ॥ २.प्पेहिं अइयारा ॥ इति नवपदप्रकरणे ५४ तमगाथायां पाठः, अयमेव च योगशास्त्रवृत्तावपि उद्धृतः २९३, पृ०५३३ ।। www.jainelibrary.org For Private & Personal use only Jain Education International
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy