________________
सवृत्तिके
धर्मबिन्दौ
६३
व्यतिक्रमादिना वा प्रकारेण विधीयमाना अतीचारतया व्यपदिश्यन्ते इति । न चैते राजसेवकादीनां न संभवन्ति, तथाहि - आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमस्तु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुद्धस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमयं कारयति तदा राज्ञोऽप्यतिचाराः स्युरिति ॥२५॥
अथ चतुर्थाणुव्रतस्य स्वदारसंतोषलक्षणस्य परदारपरिहाररूपस्य चातीचारा:
परवीवाहकरणेत्वरपरिगृहीता ऽपरिगृहीतागमना - ऽनङ्गक्रीडा - तीव्रकामाभिलाषाः ।।२६।।१५९।। इति ।
इत्वरपरिगृहीता चापरिगृहीता च इत्वरपरिगृहीतापरिगृहीते, तयोर्गमने इत्वरपरिगृहीता - ऽपरिगृहीतागमने, ततः परवीवाहकरणं च इत्वरपरिगृहीता-ऽपरिगृहीतागमने चानङ्गक्रीडा च तीव्रकामाभिलाषश्चेति समासः, इह परेषां स्वापत्यव्यतिरिक्तानां जनानां वीवाहकरणं कन्याफललिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं परवीवाहकरणम्, इह च स्वापत्येष्वपि संख्याभिग्रहो न्याय्य:, तथा इत्वरी अयनशीला भाटीप्रदानेन स्तोककालं परिगृहीता इत्वरपरिगृहीता वेश्या, तथा अपरिगृहीता वेश्यैव गृहीतान्यसत्कभाटिः कुलाङ्गना च अनाथेति, तयोर्गमनम् आसेवनम् इत्वरपरिगृहीता - ऽपरिगृहीतागमनम्, तथा अङ्गं देहावयवोऽपि मैथुनापेक्षया योनिर्मेहनं च तद्व्यतिरिक्तानि अनङ्गानि कुच - कक्षोरु - वदनादीनि, तेषु क्रीडा रमणम् अनङ्गक्रीडा, अथवा अनङ्गः कामः, तस्य तेन वा क्रीडा अनमक्रीडा स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननैर्योषिदवाच्यदेशासेवनमित्यर्थः, तथा कामे कामोदयजन्ये मैथुने अथवा 'सूचनात् सूत्रम्' इति न्यायात् कामेषु काम भोगेषु तत्र कामौ शब्द-रूपे, भोगा गन्ध-रस-स्पर्शाः, तेषु तीव्राभिलाषः अत्यन्ततदध्यवसायित्वं यतो वाजीकरणादिनाऽनवरतसुरतसुखार्थं मदनमुद्दीपयतीति एतान् समाचरन्नतिचरति चतुर्थाणुव्रतमिति । इह च द्वितीय तृतीयातिचारौ स्वदारसंतोषिण एव नेतरस्य शेषास्तु द्वयोरपीति, एतदेव च सूत्रानुपाति, यदाहसंदारसंतोसस्स इमे पंच अइयारा [ उपासक० ] इत्यादि । भावना चेयमत्र – भाटीप्रदानेनेत्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां भुञ्जानस्य स्वकीयकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्गः अल्पकालपरिग्रहाच्च वस्तुतोऽस्वकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, अपरिगृहीतागमनं त्वनाभोगादिनाऽतिक्रमादिना वाऽतीचारः । परदारवर्जिनो नैतावतीचारी, इत्वरकालपरिगृहीता - ऽपरिगृहीतयोर्वेश्यात्वेनानाथकुलाङ्गनायास्त्वनाथ१. 'राज- राजसेवकादीनाम्' इति पञ्चाशकवृत्त्यादौ पाठः ।। २. स्वदारसन्तोषस्य इमे पञ्च अतिचाराः । "सदारसंतोसस्स इमे पंच अइयारा जाणियव्वा न समायरियन्वा" इति उपासकदशाङ्गसूत्रे ||
•
Jain Education International
For Private & Personal Use Only
तृतीयोऽध्यायः
६३
www.jainelibrary.org