SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके | परमार्थतस्तस्यासत्यत्वात् कथञ्चिद् भङ्गरूपत्वादतिचार एवेति ॥२४॥ अथ तृतीयस्यधर्मबिन्दौ स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः।।२५।।१५८।।इति। स्तेनप्रयोगश्च तदाहृतादानं च विरुद्धराज्यातिक्रमश्च हीनाधिकमानोन्मानानि च प्रतिरूपकव्यवहारश्चेति समासः । तत्र स्तेना: चौरास्तेषां प्रयोगो व्यापारणं हरत यूयम्' इत्यनुज्ञाप्रदानम् १। तथा तैराहृतस्य कुङ्कुमादिद्रव्यस्याऽऽदानं संग्रह: २। विरुद्धः स्वकीयस्य राज्ञः प्रतिपन्थी, तस्य राज्यं कटकं देशो वा, तत्रातिक्रम: स्वराजभूमिसीमातिलङ्घनेन क्रमणं प्रवेश: विरुद्धराज्यातिक्रम: ३। हीने स्वभावापेक्षाया न्यूने अधिके वा मानोन्माने कुडवा दितुलारूपे भवतो हीनाधिकमानोन्माने ४॥ शुद्धेन व्रीह्यादिना घृतादिना वा प्रतिरूपकं सदृशं पलज्यादि वसादि वा द्रव्यं तेन व्यवहारो विक्रयरूप: स प्रतिरूपकव्यवहार इति ५। इह स्तेनप्रयोगो यद्यपि 'चौर्यं न करोमि न कारयामि' इत्येवंप्रतिपन्नव्रतस्य भङ्ग एव तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठय? यदि वो भक्तकादि नास्ति तदाऽहं ददामि, भवदानीतमोषस्य च यदि विक्रायको न विद्यते तदाऽहं विक्रेष्यामि' इत्येवंविधवचनैश्चौरान् व्यापारयत: स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतीचार:१ । तथा स्तेनाहृतं काणकक्रयेण लोभदोषात् प्रच्छन्नं गृह्णश्चौरो भवति, यदाह चौरश्चौरापको मन्त्री भेदज्ञ: काणकक्रयी। अन्नदः स्थानदश्चैव चौर: सप्तविधः स्मृतः ॥१११॥ [ ] ___ततश्चौर्यकरणाद् व्रतभङ्गः, 'वाणिज्यमेव मया विधीयते, न चौरिका' इत्यध्यवसायेन च व्रतानपेक्षत्वाभावाद् न भङ्ग इति भङ्गाभगरूपोऽतिचार: २। विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य सामी-जीवादत्तं तित्थयरेणं तहेव य गुरूहिं [नवपदप्रक० ३८] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वाद् भङ्ग एव तथापि विरुद्धराज्यातिक्रमं कुर्वता 'मया वाणिज्यमेव कृतम् न चौर्यम्' इति भावनया व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति ३॥ तथा हीनाधिकमानोन्मानव्यवहार: प्रतिरूपकव्यवहारश्च परव्यंसनेन परधनग्रहणरूपत्वाद् भङ्ग एव, केवलं क्षत्रखननादिकमेव चौर्यम्, कूटतुलादिव्यवहार-तत्प्रतिरूपव्यवहारौ तु वणिक्कलैव' इति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति ४-५। अथवा स्तेनप्रयोगादय: पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रम१:वादिरूपे Jमू० । 'वादितुलादिरूपे Jसं० ॥ २:रूपेण भवतो K.॥ ३ पुलंज्यादि K.॥ ४ काणक्रयेण J. विना ।। ५: मिनोऽननु K.J.॥ ६.स्वामि-जीवादत्तं तीर्थकरेण तथैव च गुरुभिः॥ For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy