SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ६१ उपदेश: - 'इदमेवं चैवं च ब्रूहि' इत्यादिकमसत्याभिधानशिक्षणम् १। रहस्याभ्याख्यानं रहः एकान्तस्तत्र भवं रहस्यं रहोनिमित्तं तच्च तदभ्याख्यानं चेति समासः, एतदुक्तं भवति - रहसि मन्त्रयमाणानवलोक्याभिधत्ते 'एते हि इदं चेदं च राजादिविरुद्धं मन्त्रयन्ते' इति २। कूटलेखस्य असद्भूतार्थसूचकाक्षरलेखनस्य करणं कूटलेखक्रिया ३। न्यासापहार इति, न्यासः परगृहे रूपकादेर्निक्षेपः, तस्य अपहार: अपलापः ४| स्वदारमन्त्रभेद इति, स्वदाराणाम् उपलक्षणत्वान्मित्रादीनां च मन्त्रस्य गुप्तभाषितस्य भेदो बहिः प्रकाशनम् इति ५। अत्र च मिथ्योपदेशो यद्यपि 'मृषा न वादयामि' इत्यत्र, 'न वदामि न वादयामि' इत्यत्र वा व्रते भङ्ग एव, 'न वदामि' इति व्रतान्तरे तु न किञ्चन, तथापि सहसाकारा - ऽनाभोगाभ्यामतिक्रम-व्यतिक्रमा - ऽतिचारैर्वा तृतीयोऽध्यायः मृषावादे परप्रवर्त्तनव्रतस्यातिचारोऽयम्, अथवा व्रतसंरक्षणबुद्धया परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयम्, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च भग्नाभग्नरूपत्वाद् व्रतस्येति । Jain Education International ननु रहस्याभ्याख्यानमसद्दोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद् भङ्ग एव, न त्वतिचार इति, सत्यम्, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान्न व्रतस्य भङ्गः, परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, यदा पुनस्तीव्रसंक्लेशादभ्याख्याति तदा भङ्गो व्रतनिरपेक्षत्वात्, आह च संहसाभक्खाणाई जाणतो जड़ करेइ तो भंगो। जइ पुणऽणाभोगाईहिंतो तो होइ अइयारो ॥११०॥ [ ] कूटलेखकरणं तु यद्यपि 'कायेन मृषावादं न करोमि' इत्यस्य 'न करोमि न कारयामि' इत्यस्य वा व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथापि सहसाकारादिनाऽतिक्रमादिना वाऽतिचारः, अथवा मृषावाद इति मृषाभणनं मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया मुग्धबुद्धेर्व्रतसव्यपेक्षस्यातिचार इति । न्यासापहारे पुनरदत्तादानं साक्षादेव भवति, मृषावादव्रतातिचारत्वं चास्य न त्वदीयं मम समीपे किञ्चिदपि इत्यनाभोगादिनाऽपह्नुवानस्य स्यादिति । स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारो घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितः स्वदारादेर्मरणादिसंभवेन ६१ १. सहसाभ्याख्यानादि जानन् यदि करोति ततो भङ्गः । यदि पुनरनाभोगादिभिः ततो भवत्यतिचार: ।। २. मृषाभषणं Jमू.। मृषाभाषणं Jसं. For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy