SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः सवृत्तिके | यन्निर्दयं छिनत्ति, सापेक्ष: पुनर्यद् गण्डं वाऽरुर्वा छिन्द्याद्वा दहेद्वेति ३ । तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या च द्विपदादिवाहनेन जीविका धर्मबिन्दौ सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न भवेत् तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारादसौ किञ्चिदून: क्रियते, हल-शकटादिषु पुनरुचितवेलायामसौ मुच्यत इति ४ । तथा भक्त-पानव्यवच्छेदो न कस्यापि कर्त्तव्यः, तीक्ष्णबुभुक्षो ह्यन्यथा म्रियते, ६० सोऽप्यर्थानर्थादिभेदो बन्धवत् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थं स्यात्, अपराधकारिणि च वाचैव वदेत् ‘अद्य ते न दास्यते भोजनादि', शान्तिनिमित्तं वोपवासं कारयेत् ५ । किं बहुना?, यथा मूलगुणस्य प्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया यतितव्यमिति । ननु प्राणातिपात एव वतिना प्रत्याख्यातः, ततो बन्धादिकरणेऽपि न दोषो, विरतेरखण्डितत्वात् । अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात् । किञ्च, बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रतेयत्ता विशीर्येत, प्रतिव्रतं पञ्चानामतिचाखतानामाधिक्यादित्येवं न बन्धादीनामतिचारतेति, अत्रोच्यते, सत्यम्, प्राणातिपात एव प्रत्याख्यातो न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता इव द्रष्टव्याः, तदुपायत्वात् तेषाम्, न च बन्धादिकरणेऽपि व्रतभङ्गः, किं त्वतिचार एव, कथम् ?, इह द्विविधं व्रतम्- अन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते न च प्राणघातो भवति तदा दयावर्जिततया विरत्यनपेक्षप्रवृत्तित्वेन अन्तर्वृत्त्या व्रतस्य भङ्गः, प्राणिघाताभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनात् देशस्यैव च पालनादतिचारव्यपदेश: प्रवर्तते, तदुक्तम् न मारयामीति कृतव्रतस्य विनैव मृत्युं क इहातिचार: ?। निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१०॥ मृत्योरभावान्नियमोऽस्ति तस्य कोपाद् दयाहीनतया तु भङ्गः । देशस्य भङ्गानुपालनाच्च पूज्या अतीचारमुदाहरन्ति ॥१०९॥ [ ] इति । यच्चोक्तं 'व्रतेयत्ता विशीर्यते' इति, तदयुक्तम्, विशुद्धाहिंसादिविरतिसद्भावे हि बन्धादीनामभाव एवेति, तदेवं बन्धादयोऽतिचारा एवेति, बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्र-तन्त्रप्रयोगादयोऽन्येऽप्येवमत्रातिचारतया दृश्या इति ॥२३॥ अथ द्वितीयस्य मिथ्योपदेश- रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-स्वदारमन्त्रभेदाः ॥२४॥१५७॥ इति। मिथ्योपदेशश्च रहस्याभ्याख्यानं च कूटलेखक्रिया च न्यासापहारश्च स्वदारमन्त्रभेदश्चेति समास: । तत्र मिथ्योपदेशो नाम अलीकवादविषय १.भारो वा नारोप J.।। २.यदुक्तम् K.।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy