SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः सवृत्तिके | 'दयालव एते' इत्यादिका प्रशंसा, संस्तवचेह संवासजनित: परिचय: वसन-भोजनदाना-ऽऽलापादिलक्षणः परिगृह्यते, न स्तवरूपः, तथा च लोके गर्मबिन्दी | प्रतीत एव संपूर्व: स्तौति: परिचये, असंस्तुतेषु प्रसभं भयेषु[ ] इत्यादाविवेति, ततः शङ्का च काङ्क्षा विचिकित्सा च अन्यदृष्टिप्रशंसा-संस्तवौ चेति समास:, किमित्याह- सम्यग्दृष्टेः सम्यग्दर्शनस्य अतीचारा विराधनाप्रकारा: संपद्यन्ते, शुद्धतत्त्वश्रद्धानबाधाविधायित्वादिति ॥२१|| तथा व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥२२॥१५५।। इति । व्रतेषु अणुव्रतेषु शीलेषु च गुणव्रत-शिक्षापदलक्षणेषु पञ्च पञ्च यथाक्रमं यथापरिपाटि अतीचारा भवन्तीति सर्वत्रानुवर्तते इति ॥२२॥ तत्र प्रथमाणुव्रते - बन्ध-वध-च्छविच्छेदा-ऽतिभारारोपणा-ऽन्नपाननिरोधाः ॥२॥१५६।। इति ।। स्थूलप्राणातिपातविरतिलक्षणस्याणुव्रतस्य बन्धो वध: छविच्छेदोऽतिभारारोपणमन्नपाननिरोधश्चेत्यतीचाराः, तत्र बन्धो रज्जुदामकादिना संयमनम्, वध: कशादिभिर्हननम्, छवि: त्वक्, तद्योगाच्छरीरमपि छवि:, तस्य छेदः असिपुत्रिकादिभिः पाटनम्, तथाऽतीव भारोऽतीभारः प्रभूतस्य पूगफलादेर्गवादिपृष्ठादावारोपणम्, तथा अन्न-पानयोः भोजनोदकयोनिरोधः व्यवच्छेदः अन्नपाननिरोधः, एते च क्रोधलोभादिकषायमलकलङ्कितान्त:करणस्य प्राणिप्राणप्रहाणनिरपेक्षस्य सतो जन्तोरतिचारा भवन्ति, सापेक्षस्य तु बन्धादिकरणेऽपि सापेक्षत्वान्नातिचारत्वमेषामिति । अत्र चायमा वश्यकचूाधुक्तो विधिः - बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यायानर्थाय वा, तत्रानय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविध: स्यात्, सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थं बध्यते, सापेक्ष: पुनर्यद् दामग्रन्थिना यश्च बद्धः सन् शक्यते प्रदीपनकादिषु विमोचयितुं वा छेत्तुं वा, एवं तावच्चतुष्पदानां बन्धः । द्विपदानां पुनरेवम् – दासो वा दासी वा चौरो वा पाठा दिप्रमत्तपुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति । तथा ते किल द्विपद-चतुष्पदाः श्रावकेण संग्रहीतव्या: ये अबद्धा एवासत इति ११ वधोऽपि तथैव, नवरं निरपेक्षवधो निर्दयताडना, सापेक्षवधः पुनरेवम् - आदित एव भीतपर्षदा श्रावकेण भवितव्यम्, यदि पुनर्न करोति कोऽपि विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति २ । छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्त-पाद-कर्ण-नासिका १. प्रमत्तः पुत्रो Lसं.ली.॥ For Private Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy