________________
वृत्त
धर्मबिन्दौ
५८
Jain Education International
ततः पोषधेषूपवास: पोषधोपवास: । अतिथयो वीतरागधर्मस्थाः साधवः साध्व्यः श्रावकाः श्राविकाश्च तेषां न्यायागतकल्पनीयादिविशेषणानामन्नपानादीनां संगतवृत्त्या विभजनं वितरणं अतिथिसंविभागः, तथा च उमास्वातिवाचकविरचितश्रावकप्रज्ञप्तिसूत्रं यथा - अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्च, एतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थाना-ऽऽसनदान- पादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्न-पान-वस्त्रौषधा ऽऽलयादिप्रदानेन संविभागः कार्यः [ ] इति, ततः सामायिकं च देशावकाशं च पोषधोपवासश्चातिथिसंविभागश्चेति समासः, चत्वारीति चतु:संख्यानि, किमित्याह - शिक्षापदानि, शिक्षा साधुधर्माभ्यासः, तस्य पदानि स्थानानि भवन्ति ॥९॥ ततश्च
एतदारोपणं दानं यथाऽर्ह, साकल्य-वैकल्याभ्याम् ।।१९।।१५२।। इति ।
इह तेषामणुव्रतादीनां प्रागुक्तलक्षणे धर्मार्ह प्राणिनि यदारोपणं उक्तविधिनैव निक्षेपणम्, तत् किमित्याह- दानं प्रागुपन्यस्तमभिधीयते, कथमित्याहयथार्हं यथायोग्यम्, काभ्यामित्याह- साकल्य-वैकल्याभ्याम्, साकल्येन समस्ताणुव्रत - गुणव्रत - शिक्षापदाध्यारोपलक्षणेन वैकल्येन वा अणुव्रतादीनामन्यतमारोपणेनेति ॥ १९ ॥ एवं सम्यक्त्वमूलकेष्वणुव्रतादिषु समारोपितेषु यत् करणीयं तदाह
गृहीतेष्वनतिचारपालनम् ||२०|| १५३।। इति ।
गृहीतेषु प्रतिपन्नेषु सम्यग्दर्शनादिषु गुणेषु, किमित्याह- निरतिचारपालनमिति, अतिचारो विराधना देशभव इत्येकोऽर्थः, अविद्यमानोऽतिचारो येषु तानि अनतिचाराणि तेषाम् अनुपालनं धरणं कार्यम्, अतिचारदोषोपघातेन हि कुवातोपहतसस्यानामिव स्वफलप्रसाधनं प्रत्यसमर्थत्वादमीषामिति ||२०|| अनतिचारपालनमित्युक्तम्, अथातिचारानेवाह
शङ्का - काङ्क्षा - विचिकित्सा ऽन्यदृष्टिप्रशंसा - संस्तवाः सम्यग्दृष्टेरतीचाराः ।। २१ ।। १५४ ।। इति ।
इह शङ्का काङ्क्षा विचिकित्सा च ज्ञानाद्याचारकथनमिति सूत्रव्याख्योक्तलक्षणा एव, अन्यदृष्टीनां सर्वज्ञप्रणीतदर्शनव्यतिरिक्तानां शाक्य-कपिल - कणादा-ऽक्षपादादिप्रणीतमतवर्त्तिनां पाषण्डिनां प्रशंसा-संस्तवौ अन्यदृष्टिप्रशंसा-संस्तवौ, तत्र 'पुण्यभाज एते' 'सुलब्धमेषां जन्म' १ दृश्यताम् २।११।।
For Private & Personal Use Only
तृतीयोऽध्यायः
५८
www.jainelibrary.org