________________
सवृत्तिके
धर्मबिन्दौ
५७
Jain Education International
स्थूलप्राणातिपातादिभ्यः पञ्चभ्यो महापातकेभ्यो विरति: विरमणम्, किमित्याह- साधुव्रतेभ्यः सकाशात् अणूनि लघूनि व्रतानि नियमरूपाणि अणुव्रतानि, कियन्तीत्याह- पञ्चेति पञ्चसंख्यानि पञ्चाणुव्रतानीति, बहुवचननिर्देशेऽपि यद् विरतिरित्येकवचननिर्देशः स सर्वत्र विरतिसामान्यापेक्षयेति ॥७॥ तथा
दिग्व्रत-भोगोपभोगमाना - ऽनर्थदण्डविरतयस्त्रीणि गुणव्रतानि ||१७|| १५० ।। इति ।
दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिता:, तत्र सूर्योपलक्षिता पूर्वा, शेषाश्च पूर्वदक्षिणादिका: सप्त, तथा ऊर्ध्वमधश्च द्वे, एवं दशसु दिक्षु विषये तृतीयोऽध्यायः गमनपरिमाणकरणलक्षणं व्रतं नियमो दिग्व्रतम्, भुज्यते सकृदेवासेव्यते यदशनादि तद्भोगः, पुनः पुनर्भुज्यते वसन - विलया दि यत् तदुपभोगः, त भोगश्चोपभोगश्च भोगोपभोगौ तयोर्मानं परिमाणं भोगोपभोगमानम्, अर्थः प्रयोजनं धर्म - स्वजनेन्द्रियगतशुद्धोपकारस्वरूपम्, तस्मै अथार्य दण्डः सावद्यानुष्ठानरूपः, तत्प्रतिषेधादनर्थदण्डः, स च चतुर्द्धा — अपध्यानाचरित प्रमादाचरित - हिंम्रप्रदान- पापकर्मोपदेशभेदात्, तस्य विरतिरनर्थदण्डविरतिः, ततः दिव्रतं च भोगोपभोगमानं चानर्थदण्डविरतिश्चेति समासः, किमित्याह- त्रीणि त्रिसंख्यानि गुणव्रतानि गुणाय उपकाराय व्रतानि भवन्ति, गुणव्रतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधशुद्धयभावादिति ॥१७॥ तथा
सामायिक- देशावकाश-पोषधोपवासा - ऽतिथिसंविभागश्चत्वारि शिक्षापदानि ।। १८ ।। १५१ ।। इति ॥
समानां मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्शन - ज्ञान चारित्राणामायो लाभः समस्य वा रागद्वेषान्तरालवर्त्तितया मध्यस्थस्य सतः आय: सम्यग्दर्शनादिलक्षणः समाय:, साम्नो वा सर्वजीवमैत्रीभावलक्षणस्य आय: सामायः, सर्वत्र स्वार्थिकेकण्प्रत्ययोपादानात् सामायिकं सावद्ययोगपरिहार- निरवद्ययोगानुष्ठानरूपो जीवपरिणामः । देशे विभागे प्राक्प्रतिपन्नदिव्रतस्य योजनशतादिपरिमाणरूपस्य अवकाशो गोचरो यस्य प्रतिदिनं प्रत्याख्येयतया तत् तथा, पोषं धत्ते पोषधः अष्टमी - चतुर्दश्यादिः पर्वदिवसः, उपेति सह अपवृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वास: उपवासः, यथोक्तम्
अवृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न शरीरविशोषणम् ||१०७॥ [ब्रह्मप्रकरणे २४१] इति |
१. वनितादि इत्यर्थः ।। २. ततो नास्ति J.K. ॥। ३. अपावृ Kमू. । उपावृL. ॥ दृश्यतामग्रेतनं टिप्पणम् ॥। ४. उपा ंL मुद्रिते आचार्यश्रीहरिभद्रसूरिविरचिते 'ब्रह्मसिद्धान्तसमुच्चय' इति कल्पिताभिधे ब्रह्मप्रकरणे 'उपावृत्तस्य' इति पाठ इति ध्येयम् ॥
For Private & Personal Use Only
५७
www.jainelibrary.org