SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ५६ Jain Education International कंचे। अयमन्त्रार्थोपनयः - यथा तद्बसन्तपुरं नगरं तथा संसारः, यथा राजा तथा श्रावकः, यथा स श्रेष्ठी तथा गुरुः, यथा च षट् पुत्रास्तथाऽमी षट् जीवनिकायाः, यथा च तस्य पितुः शेषपुत्रोपेक्षणेनैकं पुत्रं मोचयतोऽपि न शेषपुत्रवधानुमतिः एवं गुरुर्निजपुत्रप्रायान् षडपि जीवनिकायांस्तैस्तैः प्रव्रज्योत्साहनोपायैर्गृहस्थतया तद्वधप्रवृत्तात् श्रावकात् मोचयति, यदा चासौ नाद्यापि तान् मोक्तुमुत्सहते तदा ज्येष्ठपुत्रप्रायं त्रसकायं शेषोपेक्षणेन गुरोर्न शेषकायवधानुमतिदोष इति ||१३|| विधिनाऽणुव्रतादिप्रदानमित्युक्तं प्रागतस्तमेव दर्शयति योग- वन्दन - निमित्त दिगाकारशुद्धिर्विधिः || १४ || १४७।। इति । इह शुद्धिशब्दः प्रत्येकमभिसंबध्यते, ततो योगशुद्धिर्वन्दनशुद्धिर्निमित्तशुद्धिर्दिक्शुद्धिराकारशुद्धिश्च विधिः अणुव्रतादिप्रतिपत्तौ भवति, तत्र योगाः काय-वाङ्-मनोव्यापारलक्षणा:, तेषां शुद्धिः सोपयोगात्वरगमन निरवद्यभाषण- शुभचिन्तनादिरूपा, वन्दनशुद्धिः अस्खलितामिलितप्रणिपातादिदण्डक - समुच्चारणा-संभ्रान्तकायोत्सर्गकरणलक्षणा, निमित्तशुद्धिः तत्कालोच्छलितशङ्ख- पणवादिनिनादश्रवण- पूर्णकुम्भ- भृङ्गार-च्छत्र-ध्वजचामराद्यवलोकन- शुभगन्धाघ्राणादिस्वभावा, दिक्शुद्धिः प्राच्युदीची- जिन-जिनचैत्याद्यधिष्ठिताशासमाश्रयणस्वरूपा, आकारशुद्धिस्तु राजाद्यभियोगादिप्रत्याख्यानापवादमुक्तीकरणात्मिकेति ||३४|| तथा — उचितोपचारश्च ।। १५ ।। १४८ ।। इति । देव-गुरु-साधर्मिक-स्वजन- दीना नाथादीनामुपचारार्हाणां यो यस्य योग्य उपचारो धूप- पुष्प-वस्त्र- विलेपना -ऽऽसनदानादिगौरवात्मकः, स च विधिरित्यनुवर्त्तत इति ॥ १५ ॥ अथाणुव्रतादीन्येव क्रमेण दर्शयन्नाह स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्च ॥ १६ ।। १४९।। इति । इह प्राणातिपातः प्रमत्तयोगात् प्राणिव्यपरोपणरूपः, स च स्थूलः सूक्ष्मश्च, तत्र सूक्ष्मः पृथिव्यादिविषयः, स्थूलश्च द्वीन्द्रियादित्रसगोचरः, स्थूलश्चासौ प्राणातिपातश्चेति स्थूलप्राणातिपातः, आदिशब्दात् स्थूलमृषावादा ऽदत्तादाना ऽब्रह्म-परिग्रहाः परिगृह्यन्ते, ते च प्रायः प्रतीतरूपा एव, ततस्तेभ्यः १.. यथा श्रेष्ठी L. लीं. ॥ २.३।८।। ३ मुक्तीकारणा J ॥ For Private & Personal Use Only तृतीयोऽध्यायः ५६ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy