________________
सवृत्तिके धर्मबन्दी
६७
Jain Education International
‘न कारयामि' इत्येवंविहितदिव्रतस्यैव संभवति, तदन्यस्य तु आनयनादावनतिक्रम एव, तथाविधप्रत्याख्यानाभावादिति १-२-३ तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतो वृद्धिः वर्द्धनम्, पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिः, किल केनापि पूर्वापरदिशो: प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः ४ । तथा कथञ्चिदतिव्याकुलत्व-प्रमादित्व-मत्यपाटवादिना स्मृतेः स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यान्तर्धानं भ्रंशः स्मृत्यन्तर्धानमिति ५ । इह वृद्धसंप्रदायः ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी वा वस्त्रमाभरणं वा गृहीत्वा व्रजेत्, तत्र तस्य न कल्पते गन्तुम्, यदा तु तत् पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुम्, एतत् पुनरष्टापदोज्जयन्तादिषु भवेत्, एवमधः कूपादिषु विभाषा, तथा यत् तिर्यक्प्रमाणं गृहीतं तत् त्रिविधेन करणेन नातिक्रमितव्यम्, क्षेत्रवृद्धिश्च न कर्त्तव्या, कथम् ?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत् तत् परिमाणम्, ततः परतो भाण्डमर्चं लभते इतिकृत्वा अपरेण यानि योजनानि तानि पूर्वदिक्परिमाणे क्षिपति, यदि च स्मृत्यन्तर्धानात् परिमाणमतिक्रान्तो भवेत् तदा ज्ञाते निवर्तितव्यं परतश्च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः, अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते इति ॥२८॥ अथ द्वितीयस्य
संचित्त संबद्ध - संमिश्रा - ऽभिषव - दुष्पक्वाहाराः ||२९|| १६२ || इति ।
सचित्तं च संबद्धं च संमिश्रं च अभिषवश्च दुष्पक्वाहारश्चेति समासः । इह च सचित्तादौ निवृत्तिविषयीकृतेऽपि प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्यानाभोगा-ऽतिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यम्, अन्यथा भङ्ग एव स्यात् । तत्र सचित्तं कन्द-मूल-फलादि, तथा संबद्धं प्रतिबद्धं सचित्तवृक्षेषु गुन्दादि पक्वफलादि वा, तद्भक्षणं हि सावद्याहारवर्जकस्य सावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनाऽतिचारः, अथवाऽस्थिकं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति, तथा संमिश्रम् अर्द्धपरिणतजलादि सद्यः पिष्टकणिक्कादि वा, अभिषवः सुरासन्धानादि, दुष्पक्वाहारश्च अर्द्धस्विन्नपृथुकादि, एतेऽपि अतीचारा अनाभोगादतिक्रमादिना वा सम्मिश्राद्युपजीवनप्रवृत्तस्य भवन्ति, अन्यथा पुनर्भङ्ग एवेति ।
इह भोगोपभोगमानलक्षणं गुणव्रतमन्यत्र भोजनतो गुणव्रतं यदुच्यते तदपेक्षयैवातिचारा उपन्यस्ताः, शेषव्रतपञ्चपञ्चातिचारसाधर्म्याद्, १. सच्चित्त K१. १.
For Private & Personal Use Only
तृतीयोऽध्यायः
६७
www.jainelibrary.org